________________
भाष्यगाथाः ३९०५-१२] तृतीय उद्देशः ।
१०७३ तावत् तानि प्रमाणातिरिक्तान्यपि न छिद्यन्ते, ‘मा खलु लाभश्छिद्यत्' मा भूयो वस्त्रलाभव्यवच्छेदो भवेदिति भावः । तथा "न पारदुच्चा" (गा० ३९०५ ) इत्यादिना स्थूणादौ विषये यत् कृत्स्नवस्त्राणां प्रावरणमनुज्ञातमेष पारदुच्चापवादो भण्यते । यत्तु 'तेषां कृत्स्नवस्त्राणां दशाः परिभोगा-ऽतिरिक्तादिदोषपरिहारार्थ छेत्तव्याः' (गा० ३९०५) इत्युक्तम् एष तस्य पारदोच्चापवादस्य प्रतिपक्ष उच्यते स चात्र यावदवग्रहद्वारे भवेत् , अविभक्तानामपि तेषां वस्त्राणां दशिकाश्छेत्तव्या इति भावः ॥ ३९०८ ।।
अक्वायाववादो वा, एत्थ जुजइ कारणे ।
सहाणं व तमब्भेति, अच्छिजं जं उदाहडं ॥ ३९०९ ॥ अपवादापवादो वा अत्र कारणे युज्यते । किमुक्तं भवति ?-'स्थूणाविषयादि प्रतीत्य यत् कृत्स्नं वस्त्रं कल्पते' एष तावदपवादः, यत्तु तत्र 'दशिकाश्छेत्तव्याः' इत्युक्तम् एष भूयोऽपि 10 तत्रापवादे उत्सर्गो मन्तव्यः, अयमप्यपोद्यते-यदा 'तत् पाश्र्वान्तेषु दशिकाभिर्बद्धेषु दृढं भविष्यति' इति मत्वा सिन्धुविषये वा नातिदीर्घदशाकस्य वस्त्रस्य यद् दशा अपि न छिद्यन्ते, एतेनापवादे य उत्सर्गः सोऽप्यपोदित इति कृत्वा अपवादापवाद उच्यते, सोऽप्यत्र घटते । एवं च 'खस्थानं वा' कृत्स्नत्वमेव 'तद्' वस्त्रम् 'अभ्येति' प्रामोति यद् 'अच्छेद्यम्' अच्छेदनीयम् 'उदाहृतम्' उक्तम् । इयमत्र भावना-प्रमाणातिरिक्तं दशिकाश्च यस्य न छिद्यन्ते तत् 15 कृत्स्नमेव ज्ञातव्यं नाकृत्स्नमिति ॥ ३९०९ ॥ गतं द्रव्यकृल्ले द्वितीयपदम् । अथ भावकृत्स्ने द्वितीयपदमाह
देसी गिलाण जावोग्गहो उ भावम्मि होति वितियपदं ।
तब्भाविते य तत्तो, ओमादिउवग्गहट्ठा वा ।। ३९१० ॥ देशी-ग्लान-यावदवग्रहविषयं भावकृत्स्ने द्वितीयपदं भवति । 'ततः' तदनन्तरं तैः-भाव- 20 कृल्लैहवासे भावितस्तद्भावितस्तद्विषयं द्वितीयपदम् , सोऽपि भावकृत्लानि परिभुञ्जीतेत्यर्थः । अवमौदर्यादिषु वा गच्छस्योपग्रहार्थं तानि धारयेदिति सङ्ग्रहगाथासमासार्थः ॥ ३९१० ॥ अथैनामेव विवृणोति
देसी गिलाण जावोग्गहो उ दव्वकसिणम्मि जं वुत्तं ।।
तह चेव होति भावे, तं पुण सदसं व अदसं वा ॥ ३९११॥ 25 देशी-ग्लान-यावदवग्रहद्वारेषु यदेव द्रव्यकृल्ने द्वितीयपदमुक्तं तदेव 'भावकृत्स्नेऽपि' वर्णाव्ये बहुमूल्ये वा वस्त्रे मन्तव्यम् । नवरं तत् पुनः सदशमदशं वा भवेत् , उभयमप्यपवादपदे ग्राह्यमिति भावः ॥ ३९११ ॥ अथ क्षेत्रकृत्लापवदति
नेमालि तामलित्तीय, सिंधूसोवीरमादिसु।।
सव्वलोकोवभोजाई. धरिज कसिणा: वि ॥३९१२॥ नेपालविषये ताम्रलिप्यां नगर्यां सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोपभोज्यानि १ "थूणा त(तू )राण विसओ' इति चूर्णी विशेषचू च ।। २ ताटी० तामा० विनाऽन्यत्रनेपाल भा० डे । तेमाल मो० ले. त० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org