________________
१०७२ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्स्नाकृत्स्नप्रकृते सूत्रम् ७ कम्बलरत्नेन निषद्याः कृताः । रात्रौ स्तेनस्यागमः । गुरोश्च तेन छुरिकामाकृप्य ग्रहणं कृत्वा भणितम् ----प्रयच्छत मम तत् कम्बलग्नम् । सूरिक्तिम्---खण्डितं तदस्माभिः । स प्राह-दर्शयत । ततस्तत्र 'अप्रत्ययति' प्रत्ययमकुर्वाणे खण्डानां दर्शनम् । रोषाच तेन भूयः सीवनं कारयित्वा कम्बलरत्नं गृहीतम् । यत एवमादयः कृत्स्ने दोषाः अतो द्रव्यतः स्थूरम5 दशाकं यथोक्तप्रमाणोपेतं क्षेत्रतः कालतश्च सर्वजनभोग्यं भावतो वर्णहीनमल्पमूल्यं च वस्त्रं ग्रहीतव्यम् ॥ ३९०३ ॥ ३९०४ ॥ अथ द्वितीयपदं बिभावयिषुः सङ्घहगाथोक्तं देशीपदं व्याख्यानयति
न पारदोच्चा गरिहा व लोए, थूणाइएसुं विहरिज एवं ।
भोगाऽइरित्ताऽऽरभडा विभूसा, कप्पेजमिच्चेव दसाउ तत्थ ॥३९०५॥ 10 "पारदोच्च" त्ति चौरभयं तद् यत्र नास्ति, यत्र च तथाविध वस्त्रे प्राब्रियमाणे लोके गर्दा नोपजायते तत्र स्थूणादिविषयेषु एवं' सकलकृत्वमपि वस्त्रं प्रावृत्य विहरेत् , परं तस्य दशाश्छेत्तव्याः । कुतः ? इत्याह-"भोग" त्ति तासां दशानां शुषिरतया परिभोगः कर्तुं न कल्पते, अतिरिक्तश्चोपधिर्भवति, प्रत्युपेक्ष्यमाणे च दशिकाभिरारभडादोषाः, विभूषा च सदशाके
वस्त्रे प्रात्रियमाणे भवति । 'इत्येवम्' एभिः कारणैस्तत्र दशाः 'कल्पयेत्' छिन्द्यात् ॥३९०५॥ 15 कारणतो न छिन्द्यादपीति दर्शयति
पासगंतेसु बद्धेसु, दढं होहिति तेण तु ।
णातिदिग्घदसं वा वि, ण तं छिंदिज देसिओ ॥ ३९०६ ॥ किञ्चिद् वस्त्रं प्रथमत एव दुर्बलम् ततः पार्का-ऽन्तेषु दशिकाभिर्बद्धेषु 'दृढ' चिरकालवहनक्षमं भविष्यतीति कृत्वा तेन कारणेन दशिकास्तस्य न कल्पयेत् । यद्वा 'देशीतः' 20 सिन्ध्वादिदेशमाश्रित्य यन्नातिदीर्घदशाकं वस्त्रं तन्न छिन्द्यात् , तस्य दशिका न कल्पयितव्या इति भावः ।। ३९०६ ॥ अथ ग्लानद्वारं व्याचष्टे
असंफुरगिलाणट्ठा, तेण माणाधियं सिया।
सदसं वेजकज्जे वा, विसकुंभट्टयाति वा ॥ ३९०७ ॥ असंस्फरो नाम-ग्लानो यः क्षीणबलतया सङ्कुचितपादः खप्तुं न शक्नोति, ५ तेस्य प्रमाण25 युक्तं वस्त्रं प्राब्रियमाणं इसति, तेन » तदर्थं 'मानाधिकमपि' प्रमाणातिरिक्तमपि वस्त्रं स्यात् । यद्वा ग्लानचिकित्सको यो वैद्यः 'तत्कार्ये' तस्य दानार्थम् , अथवा दीर्घजातीयेन कश्चिद् दष्टो भवेत् ततस्तस्य 'विद्याकार्ये' विद्यायां प्रयुज्यमानायामपमार्जनाय सदशं वस्त्रमुपयुज्यते । विषकुम्भः-स्फोटिकाविशेषस्तस्यापमार्जनाय वा सदशं वस्त्रं ग्रहीतव्यम् ॥ ३९०७ ॥ ___ अथ यावदवग्रहद्वारमाह
अविभत्ता ण छिजंति, लाभो छिजिज मा खलु ।
पारदोच्चाववादस्स, पडिपक्खो व होज उ ॥ ३९०८ ॥ आचार्याः कुलादिकार्येषु निर्गतास्ततो यावदद्यापि तैः प्रतिनिवृत्य वस्त्राणि न विभक्तानि १ नकृतं भवि भा० का विना ॥ २२!» एनदन्तर्गतः पाठः भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org