________________
भाष्यगाथाः ३८९५-३९०४) तृतीय उद्देशः ।
१०७१ गहणं च गोम्मिएहिं, परितावण धोव कम्मबंधो य ।
अन्ने वि तत्थ रुंभइ, तेणक ते वा अहव अन्ने ॥ ३९०१॥ कृत्स्नवस्त्रनिमित्तं 'गौल्मिकैः' शुल्कपालैर्ग्रहणं प्राप्नुवन्ति, 'कुतोऽमीषामीदृशानि वस्त्राणि ? नूनं कस्यापि गृहादपहृतानि' इति कृत्वा । ते च गृहीत्वा बन्धनादिभिः परितापनां कुर्वन्ति, ततस्तानि वस्त्राण्यपहृत्य प्रावृण्वन्ति, मलिनीभूतानि च तानि धावन्ति । तत्र कर्मबन्धस्तावद् । भवति यावत् तस्मात् स्थानान्न प्रतिक्रामति । यद्वा "परितावण धोव्व कम्मबंधो य" त्ति प्रमा. णातिरिक्तवस्त्राणि धावनकाले महता प्रयासेन धान्यन्ते, तत्र परितापनादयो दोषाः । प्रभूतेन च पानकेन वस्त्रधावनेऽनुपदेशकारितया कर्मबन्धो भवति । तथा गौल्मिका अन्यानपि साधून् निरुन्धन्ति, सर्वेषामपीहशानि वस्त्राणि सन्तीति कृत्वा । 'त एव च' गौल्मिका अपरेण मार्गेण गत्वा स्तेनका भवन्ति, अथवा तैः प्रेरिताः सन्तोऽन्येऽपहरन्ति ॥ ३९०१॥ 10
भावकसिणम्मि दोसा, ते चेव उ नवरि तेणदिलुतो।।
देसी गिलाण जावोग्गहो उ दव्यम्मि वितियपयं ॥ ३९०२ ॥ 'भावकृत्स्नेऽपि' वर्णयुत-मूल्ययुतलक्षणे 'त एव' भार-भय-परितापनादयो दोषाः । 'नवरं' केवलमत्र स्तेनदृष्टान्तो भवति, स चानन्तरमेव वक्ष्यते । कारणे तु प्राप्ते कृत्स्नमपि गृह्णीयात् । कथम् ? इत्याह-"देसी" इत्यादि । देशविशेष ग्लानं वा प्रतीत्य सकलकृत्लं प्रमाणकृत्लं 15 वा गृह्णीयात् । आचार्या वा कुलादिकार्येषु निर्गताः ततः "जावोग्गहो" ति यावत् तेषां समीपे वस्त्रस्यावग्रहो नानुज्ञापितस्तावत् तस्य दशिका न वि(छि)द्यन्ते इत्येवमत्र द्रव्यकृत्स्ने द्वितीयपदं मन्तव्यमिति सङ्घहगाथासमासार्थः ॥ ३९०२ ॥ अथैनामेव विवरीषुः स्तेनदृष्टान्तमाह
उवसामिओ णरिंदो, कंबलरयणेहिँ छंदए गच्छं। णिबंध एगगहणं, णिववयणे पाउतो णीति ॥ ३९०३ ॥ 20 तेणाऽऽलोग णिसिजा, रत्तिं तेणागमो गुरुग्गहणं ।
दरिसणमपत्तियंते, सिव्वावणया य रोसेणं ।। ३९०४ ॥ एगेणं आयरिएणं धम्मकहालद्धिसंपन्नेणं राया उबसामिओ । सो सव्वं गच्छं कंबलरयणेहिं पडिलाभिउ उवट्टिओ आयरिएहिं निसिद्धो-न वट्टइ एयारिसं मुल्लकसिणं गिहिउँ ति । तहा वि अतिनिबंधेणं एगं गहियं । राया भणइ-पाउया हट्टमग्गेणं गच्छह । तहा कयं । तेणगेण 25 दिट्टा । तेहिं वसहिं आगंतुं निसिज्जाओ कयाओ । सो तेणओ रतिं आगंतुं आयरियाणं उवरि छुरियं कड्डिऊण भणइ-देहि मे तं वत्थं, अन्नहा मारिस्सामि । ते भणति —इमाणि खंडाणि अस्थि । सो भणाइ–सिव्वित्ता मे देह, अन्नहा ते उद्दविस्सामि । तेहिं सिव्वित्ता दिन्नं ॥ ___ अथ गाथाद्वयस्याक्षरार्थः–केन चिदाचार्येणोपशामितो नरेन्द्रः कम्बलरैनैर्गच्छं 'छन्दयति' निमन्त्रयते । तत आचार्यों महति निर्बन्धे एकस्य कम्बलरत्नस्य ग्रहणं कृत्वा नृपवचनात् तेन 30 प्रावृतो निर्गच्छति । ततः स्तेनेन 'आलोकः' अवलोकनं कृतम् । आचार्यश्च वसतिमागम्य
१यणेण छं° भा० ॥२ °यणेणं प° भा० ॥ ३ °रत्नेन गच्छ भा० कां ॥ कृत्वा आचा भा० कां. विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org