________________
भाष्यगाथाः ३८८३-९४] तृतीय उद्देशः ।
१०६९ 'उत्कृष्टे' कल्यादौ कृत्स्ने चतुर्लघवः । 'मध्यमे' पटलकादौ लघुमासः । 'जघन्ये' मुखवस्त्रिकादौ पञ्चरात्रिन्दिवानि । एवं त्रिविधेऽपि कृत्स्न वस्त्रे यथाक्रमं त्रिविधा आरोपणा भणिता ॥३८८८।।
दव्याइतिविहकसिणे, एसा आरोवणा भवे तिविहा ।
एसेव वण्णकसिणे, चउरो लहुगा व तिविधे वि ॥ ३८८९ ॥ एषा च त्रिविधाऽप्यारोपणा द्रव्यादौ त्रिविधकृत्स्ने भवति, द्रव्यकृत्स्ने» क्षेत्रकृत्ले काल-3 कृत्स्ने चेत्यर्थः । एषैव च वर्णकृत्स्नेऽपि मन्तव्या । अथवा वर्णकृत्ले जघन्यादिभेदात् त्रिविधेऽपि चतुर्लघुकमेव । नवरं तपः-कालविशेषोऽत्र क्रियते--उत्कृष्टे यत् चतुर्लघु तत् तपसा कालेन च गुरुकम् , मध्यमे तदेव तपोगुरुकम् , जघन्ये कालगुरुकम् ; यद्वा उत्कृष्टे द्वाभ्यां गुरुकम् , मध्यमेऽन्यतरगुरुकम् , जघन्ये द्वाभ्यामपि लघुकम् ॥३८८९॥ अथ मूल्ययुतं व्याख्यानयतिमुल्लजुयं पि य तिविहं, जहण्णगं मज्झिमं च उक्कोसं ।
10 जहण्णेणऽद्वारसगं, सतसाहस्सं च उक्कोसं ॥ ३८९० ॥ मूल्ययुतमपि कृत्यं त्रिविधम् - जघन्यं मध्यममुत्कृष्टं च । यस्य रूपकाणामष्टादशकं मूल्यं तद् जघन्यम् , शतसहस्ररूपकमूल्यमुत्कृष्टम् , शेषमष्टादशकादूई शतसहस्रादर्वाग्मूल्यलभ्यं सर्वमपि मध्यमम् ॥ ३८९० ॥ अथ कतमेन रूपकेणेदं प्रमाणं निरूप्यते ? इत्याहदो साभरगा दीविचगा तु सो उत्तरापथे एको।
15 दो उत्तरापहा पुण, पाडलिपुत्तो हवति एको ॥ ३८९१ ॥ 'द्वीपं नाम' सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्त्तते तदीयौ द्वौ 'साभरको रूपकौ स उत्तरापथे एको रूपको भवति । द्वौ च उत्तरापथरूपको पाटलिपुत्रक एको रूपको भवति ॥ ३८९१ ॥ अथवा
दो दक्षिणावहाँ तू, कंचीए णेलओ स दुगुणो य ।।
एगो कुसुमणगरगो, तेण पमाणं इमं होति ॥ ३८९२ ॥ दक्षिणापथौ द्वौ रूपको काञ्चीपुर्या द्रविडविषयप्रतिबद्धाया एकः 'नेलकः' रूपको भवति । 'सः' काञ्चीपुरीरूपको द्विगुणितः सन् कुसुमनगरसत्क एको रूपको भवति । कुसुमपुरं पाटलिपुत्रमभिधीयते । 'तेन च' रूपकेणेदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं । भवति ॥ ३८९२ ।। अथ मूल्यवृद्ध्या प्रायश्चित्तवृद्धिमुपदर्शयति
अट्ठारस वीसा या, अगुणापण्णा य पंच य सयाई । एगूणगं सहस्सं, दस पण्णासं सतसहस्सं ॥ ३८९३ ॥ चत्तारि छच्च लहु गुरु, छेदो मूलं च होइ बोद्धव्वं ।
अणवटुप्पो य तहा, पावति पारंचियं ठाणं ॥ ३८९४ ॥ अष्टादशरूपकमूल्यं वस्त्रं गृह्णाति चत्वारो लघवः । विंशतिरूपकमूल्ये चत्वारो गुरवः । 30 एकोनपञ्चाशन्मूल्ये षड्लघवः । पञ्चशतमूल्ये षड्गुरवः । एकोनसहस्रमूल्ये छेदः । दशसहस्र
१ > एतदन्तर्गतः पाठः भा० का० एव वर्तते ॥ २ °रावहो ए° ताभा० ॥ ३°हा वा, कंचीए णेलओ हवह एको ताभ! ॥ ४॥ एतदन्तर्गतः पाठः भा० कां० एव वर्तते ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org