________________
१०६८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [कृत्स्वाकृत्तप्रकृते सूत्रम् ७ 'धनं' तन्तुभिः सान्द्रं 'मसृणं' सुकुमारस्पर्श 'निरुपहतम्' अञ्जन-खञ्जनादिदोषरहितम् , एवंविधं यद् वस्त्रं सदशाकं लभ्यते एतत् सकलकृत्स्नमुच्यते । तच्च जघन्यं मध्यममुत्कृष्टं वा ज्ञातव्यम् । जघन्यं मुखपोतिकादि, मध्यमं पटलकादि, उत्कृष्टं कल्पादि ॥ ३८८२ ।।
वित्थारा-ऽऽयामेणं, जं वत्थं लब्भए समतिरेगे।
___ एयं पमाणकसिणं, जहण्णयं मज्झिमुक्कोसं ॥ ३८८३ ॥ विस्तारश्च-पृथुत्वं आयामश्च-दैर्ध्य विस्तारा-ऽऽयामम् , द्वन्द्वैकवद्भावः, तेन, यद् वस्त्रं यथोक्तप्रमाणतः समतिरिक्तं लभ्यते एतत् प्रमाणकृत्वं भण्यते । तच्च जघन्य-मध्यमोत्कृष्टभेदात् त्रिविधं प्राग्वद् द्रष्टव्यम् ॥ ३८८३ । क्षेत्रकृत्स्नमाह
जं वत्थ जम्मि देसम्मि दुल्लहं अचियं व जं जत्थ ।
तं खित्तजयं कसिणं, जहण्णयं मज्झिमुक्कोसं ॥ ३८८४ ॥ यद् वस्त्रं यस्मिन् देशे' दुर्लभम् , यत्र वा यद् 'अर्चितं' सुमहाघम् , यथा-पूर्वदेशजं वस्त्रं लाटविषयं प्राप्य महाय॑म् , तत् क्षेत्रयुतं कृत्स्नमुच्यते, क्षेत्रकृत्स्नमित्यर्थः । तदपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥ ३८८४ ॥ कालकृत्स्नमाह
जं वत्थ जम्मि कालम्मि अग्घितं दुल्लभं व जं जत्थ ।
तं कालजुतं कसिणं, जहण्णयं मज्झिमुक्कोसं ॥ ३८८५ ॥ यद् वस्त्रं यस्मिन् काले 'अर्पितं' बहुमूल्यम् , यच्च यत्र दुर्लभम् , यथा-ग्रीष्मे काषायिकादि, शिशिरे प्रावारादि, वर्षासु कुङ्कुमखचितादि, तदेतत् कालकृत्स्नम् । एतदपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् ॥ ३८८५ ॥ भावकृत्स्नमाह
दुविहं च भावकसिणं, वण्णजुतं चेर्वे होति मोल्लजुयं ।
वण्णजयं पंचविहं, तिविहं पुण होइ मोल्लजुतं ॥ ३८८६ ॥ द्विविधं च भावकृत्स्नम् , तद्यथा-वर्णयुतं मूल्ययुतं च, वर्णतो मूल्यतश्चेत्यर्थः । तत्र वर्णयुतं 'पञ्चविधं कृष्णादिवर्णभेदात् पञ्चप्रकारम् । मूल्ययुतं पुनः 'त्रिविधं' जघन्यादिभेदात् त्रिप्रकारम् ॥ ३८८६ ॥ इदमेव स्पष्टयति
पंचण्हं वण्णाणं, अण्णतराएण जं तु वण्णहूँ । [आव.नि. ७३१]
तं वण्णजुयं कसिणं, जहण्णयं मज्झिमुक्कोसं ॥ ३८८७ ॥ 'पञ्चानां' कृष्णादीनां वर्णानामन्यतरेण वर्णेन यद् आत्यं-समृद्धं तदेतद् वर्णयुतं कृत्यमुच्यते । इदमपि जघन्यं मध्यममुत्कृष्टं चेति । मूल्ययुतं सभेदमप्युपरि वक्ष्यते ॥ ३८८७ ॥ अथानन्तरोक्तकृत्स्नेषु प्रायश्चित्तमाह--
चाउम्मासुकोसे, मासो मज्झे य पंच य जहण्णे ।
तिविहम्मि वि वत्थम्मि, तिविधा आरोवणा भणिया ॥ ३८८८ ॥ १म्मि अच्चियं दुल्लहं व जं भा० । एतदनुसारेणेव भा० टीका । दृश्यतां टिप्पणी २ ॥ २ शेऽ. र्चितं यत्र वा यद् 'दुर्लभं' सुम° भा० ॥ ३ जं जं तु जम्मि ताभा ॥ ४°च तह य मो° ताभा० ॥ ५°मृद्धं तद् व भा० का ताटीविना ॥
25
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org