SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १०६६ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ चर्मप्रकृते सूत्रम् ६ इद्दैकस्य पादस्य पञ्चानामङ्गुलीनां बन्धनाय प्रत्येकमेकैकं खण्डं कर्त्तव्यम् अङ्गुष्ठस्य चाधः षष्ठं खण्डम्, अग्रतले सप्तमम्, मध्यतलेऽष्टमम्, पाष्णिकायां नवमम् एवं द्वितीयस्याप्युपानहो नव खण्डानि, सर्वाण्यप्येवमष्टादश खण्डानि भवन्ति ।। ३८७५ ।। 15 एवं परेणोक्ते सति सूरिराह - एतावतां खण्डानां ग्रहणे मासलघु प्रायश्चित्तम्, असामाचारी निष्पन्नमित्यर्थः । मुच्यमानेषु चैतावत्सु खण्डेषु महान् सूत्रार्थयोः परिमन्थो भवति । आह - यद्येवं ततः किन्ति खण्ड क्रियन्ते ? इत्याह- द्वितीयपदे यदा चर्म गृह्यते तदा मध्यप्रतिबद्धे द्वे खण्डे कर्त्तव्ये, मध्य10 भागात् त्रोटयित्वा खण्डद्वयं विधाय मध्ये वर्धादिना बन्धनीयमित्यर्थः । अत्र पूर्वार्द्धस्येदं पाठान्तरम् - "मुचंते पलिमंथो, जत्तियमित्तं तु तत्तिए गहणं ।" अष्टादश खण्डानि मुञ्चति साधोर्महान् पलिमन्थः, ततो यावन्मात्रमपरिमन्थाय भवति तावन्मात्रं ग्रहीतव्यम् । उत्तरार्द्ध प्राग्वत् ॥ ३८७६ ॥ अथाष्टादशानां खण्डानां करणे कीदृशः परिमन्थो भवति : इत्याहपडिलेहा पलिमंथो, णदिमादुदए य मंच बंधते । सत्थफिडणेण तेणा, अंतरवेधो य डंकणता ॥ ३८७७ ॥ एवइयाणं गहणे, मासो मुच्चति होति पलिमंथो । विपद घेपमाणे दो खंडा मज्झडिबंधा ॥ ३८७६ ॥ यावदष्टादश खण्डानि द्विसन्ध्यं प्रत्युपेक्षते तावत् सूत्रार्थयोः परिमन्थो भवति । नद्याद्युदकमवतितीर्षुश्च यावदष्टादश खण्डानि मुञ्चति उत्तीर्णश्च यावत् तानि भूयोऽपि बध्नाति तावत् सार्थात्. स्फिटति, स्फिटितश्च स्तेनानां गम्यो भवति । बहूनां खण्डानामन्तरेषु च कण्टकैर्विध्येत । बहुबन्धघर्षेण वा पादयोर्डको भवेत् । यत एवमतः पूर्वोक्तनीत्या खण्डद्वयं विधेयम् 20॥ ३८७७ ॥ कथं पुनस्तद् बन्धनीयम् ? इत्याह तज्जायमतञ्जायं, दुविहं तिविहं व बंधणं तस्स । जामि वि लहुओ, तत्थ वि आणादिणो दोसा || ३८७८ ॥ 'तस्य' चर्मखण्डद्वयस्य तज्जातं वा बन्धनं भवति अतज्जातं वा बन्धनं भवति । तज्जातं नाम तस्मिन् चर्मणि जातम् वर्धादिबन्धनमित्यर्थः, तद्विपरीतं दवरकादिकमतज्जातम् । 25 एतच्च द्विविधं त्रिविधं वा भवति, द्वौ वा त्रयो वा बन्धा दातव्या इति भावः । अत्र प्रथममतज्जातेन दवरकादिना बन्धनीयम् । यदि तज्जातेन वर्षादिना बध्नाति ततो मासलघु, तत्राप्याज्ञादयो दोषा भवन्ति ॥ ३८७८ ॥ ॥ चर्मप्रकृतं समाप्तम् ॥ Jain Education International १ एतदन्तर्गतः पाठः भा० नास्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy