SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ भाप्यगाथाः ३८६७-७५] तृतीय उद्देशः । १०६५ मासगुरुकमित्यर्थः । अनुमोदनायां मासलघु । तत्रापि स्वयङ्करणादावाज्ञादयो दोषा उड्डाहश्च भवति, तथाहि-तं संयतं खयमेव चर्म कुर्वाणं दृष्ट्वा लोको ब्रवीति-अहो ! चर्मकरोऽयमिति । अथ पूर्वकृतं न लभ्यते ततोऽनुमोदनया गृह्णीयात् । कथम् ? इति चेद् उच्यतेयदि कोऽपि ब्रूयात्-अहं ते उपानही करोमि ? ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठेत् । अथाऽनुमोदनया न प्राप्यते ततोऽन्येन कारयेत् । एवमप्यलाभे आत्मनाऽपि यतनया । कुर्यात् ॥ ३८७१ ॥ ‘सूत्रम् कप्पइ निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइं धारित्तए वा परिहरित्तए वा ६॥ ___ 'कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा [अकृत्स्नानि ] चर्माणि धारयितुं वा परिहर्तुं 10 वा इति सूत्रार्थः ॥ » अथ भाष्यम् अकसिणचम्मग्गहणे, लहुओ मासो उ दोस आणादी। बितियपद घेप्पमाणे, अट्ठारस जाव उक्कोसा ॥ ३८७२ ॥ यद्यपि सूत्रेऽनुज्ञातं तथापि न कल्पते अकृत्लचर्म प्रतिग्रहीतुम् । यदि गृह्णाति ततो लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः । 'द्वितीयपदे तु' पूर्वोक्तैरध्वादिभिः कारणैरकृत्ले गृह्य- 15 माणे विधिरभिधीयते । तत्र नोदकः प्राह-यद्यकृत्वं ग्रहीतुं कल्पते ततो द्वयोरुपानहोरुस्कपतोऽष्टादश खण्डानि यावत् कर्तव्यानि ॥ ३८७२ ॥ इदमेव व्याचष्टे अकसिणमट्ठारसगं, एगपुड विवण्ण एगबंधं च । तं कारणम्मि कप्पति, णिकारण धारणे लहुओ ॥ ३८७३ ॥ अकृत्स्नं नाम 'अष्टादशकम्' अष्टादशभिः खण्डैः कृतम् १ तदपि एकपुटम्' एकतलं २ 20 'विवर्ण' न वर्णाढ्यं ३ 'एकबन्धं च' न यादिबन्धनोपेतम् ४, एभिश्चतुर्भिः पदैर्यथाक्रमं सकलप्रमाण-वर्ण-बन्धनैः कृत्स्नता परिहृता । तदेवंविधमकृत्स्नं चर्म कारणे धारयितुं कल्पते । अथ निष्कारणे धारयति ततो लघुमासः । एषा पुरातना गाथा ॥३८७३॥ अथैनां व्याख्याति जइ अकसिणस्स गहणं, भाए काउं कमेण अहदस । एगपुड-विवण्णेहि य, तहिं तहिं बंधते कजे ॥ ३८७४ ॥ यद्यकृत्स्नस्य चर्मणो ग्रहणं कर्त्तव्यं तत उपानहावष्टादश भागान् वक्ष्यमाणक्रमेण कृत्वा तैः खण्डैरेकपुटैर्विवर्णैः चशब्दादेकबन्धैश्च यत्र यत्र पादप्रदेशे आबाधा तत्र तत्र कार्ये समुत्पन्ने बनीयात् ॥ ३८७४ ॥ कथं पुनरष्टादश खण्डानि भवन्ति ? इत्युच्यते पंचंगुल पत्तेयं, अंगुट्ठमज्झे य छट्ठ खण्डं तु । सत्तममग्गतलम्मी, मज्झऽट्ठम पण्हिया णवमं ॥ ३८७५ ॥ १॥ एतदन्तर्गतः पाठः भा० नास्ति ॥ २ अत्र भा° भा० ॥ ३°कृष्ण त्र भा० ॥ ४ ततो मासलघु प्रा कां० ॥ ५ कृष्णे गृ° भा० कां० त० ॥६ कृष्णं ग्र° भा० ॥ ॥ ३४७५ ॥ 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy