________________
10
१०६४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ६ त्पन्ने उपानहः परिभोक्तव्याः । तत्र च सागारिका-ऽसागारिकविषया यतना, यत्र सागारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः, यत्र पुनः सागारिका उड्डाहं कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति भावः ॥ ३८६६ ॥ एवमध्वादिषु कारणेषु कृत्स्नचर्मणो ग्रहणे प्राप्ते विधिमाह
पंचविहम्मि वि कसिणे, किण्हग्गहणं तु पढमतो कुजा ।
किण्हम्मि असंतम्मि, विवण्णकसिणं तहिं कुज्जा ।। ३८६७॥ पञ्चविधे वर्णकृत्स्ने प्रथमतः कृष्णवर्णकृत्स्नग्रहणं कुर्यात् । ततः कृष्णे वर्णकृत्स्ने 'असति' अलभ्यमाने लोहितादिवर्णकृत्स्नमपि गृह्णीयात् । तच कृत्स्नमूष-तैलादिभिः 'विवर्ण' विरूपवर्ण कुर्याद् यथा लोको नोड्डाहं कुरुते आत्मनो वा न तत्र रागो भवति ॥ ३८६७ ॥
किण्हं पि गेण्हमाणो, झुसिरग्गहणं तु वजए साहू ।
बहुबंधणकसिणं पुण, वजेयव्वं पयत्तेणं ॥ ३८६८॥ कृष्णवर्णमपि गृह्णन् शुषिरग्रहणं साधुः प्रयत्नतो वर्जयेत् । अत्र पाठान्तरम्-"कसिणं पि गिण्हमाणो" त्ति, 'कृत्स्नं' सकलकृत्स्नं प्रमाणकृत्यं वा द्वितीयपदे गृह्णन् शुषिरग्रहणं साधु
वर्जयेत् । यत्तु बहुबन्धनकृलं तत् प्रयत्नतो वर्जयितव्यम् ॥ ३८६८ ॥ 15 अथ किं तद् बन्धनम् ? इत्याशक्याह
दोरेहि व वज्झेहि व, दुविहं तिविहं व बंधणं तस्स।
अणुमोदण कारावण, पुवकतम्मि अधीकारो ॥ ३८६९ ॥ दवरकैर्वा वधैर्वा द्विविधं त्रिविधं वा बन्धनं तस्य चर्मणो भवति, द्वौ वा त्रयो वा बन्धा दातव्या इत्यर्थः । एवंविधं बन्धनकृत्स्नमनुज्ञातम् , न चतुरादिबहुबन्धनबद्धम् । तथा कृत्स्नमकृत्स्नं 20 वा चर्म साधुना खयं न कर्त्तव्यम् , अन्येन न कारापयितव्यम् , अन्यस्य कुर्वतो नानुमोदना कर्त्तव्या, किन्तु यत् पूर्वमेव गृहस्थैर्यथाभावेन कृतं तस्मिन् ‘अधिकारः' प्रयोजनम् , तस्य ग्रहणं कर्तव्यमिति भावः ॥ ३८६९ ॥ अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्ति ? इति उच्यते
खुलए एगो बधो, एगो पंचंगुलस्स दोण्णेते ।
खुलए एगो अंगुट बितिय चउरंगुले ततितो ॥ ३८७० ॥ 8 'खुलके' घुण्टके एको वध्रबन्धो भवति, 'एकस्तु' द्वितीयो बन्धः 'पञ्चाङ्गुलस्य चतसृणा__ मङ्गुलीनामङ्गुष्ठस्य चेत्यर्थः, एतौ द्वौ बन्धौ मन्तव्यौ । यदा तु त्रयो बन्धा भवन्ति तदा खुलके एकः अङ्गुष्ठे द्वितीयः चतसृणामङ्गुलीनां तृतीयः ।। ३८७० ॥ अथ खयकरणादिषु प्रायश्चित्तमाह
सयकरणे चउलहुगा, परकरणे मासियं अणुग्घायं ।
अणुमोदणे वि लहुओ, तत्थ वि आणादिणो दोसा ॥ ३८७१ ॥ खयं यदि चर्म करोति तदा चतुर्लघवः । अथ परेण कारयति तदा मासिकमनुद्वातम् , १°णं पि य, व ताभा० ॥ २ भा० विनाऽन्यत्र-कृष्णवर्णमकृष्णमपि का० । कृत्स्नवर्णकष्णमपि मो० ले० । कृत्सवर्णकृत्स्नमपि ताटी० त० डे० ॥ ३"न्धा भवन्ति इ" भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org