________________
" गाथाः ३८५८-६६] तृतीय उद्देशः । अथैनामेव विवृणोति
कंटा-हि-सीयरक्खट्ठता विहे खवुसमादि जा गहणं ।
ओसहपाण गिलाणे, अहुणुट्टियभेसयट्ठा वा ॥ ३८६३ ॥ 'विहे' अध्वनि प्रतिपद्यमाने कण्टकस्य अहेः शीतस्य च रक्षार्थमङ्गुलिकोशकं खल्लकादि वा गृह्णन्ति । किं बहुना ? खपुसामादौ कृत्वा यावदर्धजङ्घा-समस्तजङ्घयोरपि ग्रह्णम् । 5 तथा ग्लान औषधपानं कृत्वा वैद्योपदेशेन पृथिव्यां पादौ न स्थापयति । अधुनोत्थितो वा ग्लानः क्रमयोः क्रमणिके आविध्यति, मा शीतानुभावेन भक्तं न जरिष्यतीति कृत्वा । ग्लानस्य वा भेषजार्थं त्वरितं ग्रामान्तरं गन्तव्यम् ततः क्रमणिकाः पिनद्धव्याः ॥ ३८६३ ॥
___ अरिसिल्लस्स व अरिसा, मा खुब्भे तेण बंधते कमणी ।
____ असहुमवंताहरणं, पादो घट्ठो तु गिरिदेसे ॥ ३८६४ ॥ 10 अर्शोवतः पादतलदौर्बल्यादर्शासि मा क्षुभ्येरन्निति कृत्वा . क्रमणिके असौ बध्नाति । असहिष्णुर्नाम-मार्गे गच्छन्नुपानद्भिविना गन्तुं न शक्नोति, यदि गच्छति ततः पादाभ्यां रुधिरं परिगलति; अत्र अवन्तीसुकुमारोदाहरणं भवति, तच्चाऽऽवश्यकाद् (हारि० वृत्तिः पत्र ६७०) विज्ञेयम् ; स क्रमणिके बध्नीयात् । उदका-ऽमि-स्तेन-चापदादौ वा सम्भ्रमे क्रमणिकाः परिभोक्तव्याः । गिरिदेशे वा पर्यटतः कस्यापि पादतलं घृष्टं तत उपानही पिना पर्यटति ॥३८६४॥ib
कुट्ठिस्स सकरादीहि वा वि भिण्णो कमो मधूला वा।।
बालो असंफरो पुण, अजा विहि दोच पासादी ॥ ३८६५ ॥ कुष्ठिनः सम्बन्धी शोणित-पूयेन 'भिन्नः' स्फटितः क्रमः शर्करा-कण्टकादिभिराक्रान्तो महती पीडामुपजनयति, 'मधूला वा' पादगण्डं कस्यापि समजनि ततः क्रमणिके बध्नाति । बालो वा कश्चिद् 'असंस्फरः' असंवृतो यत्र तत्र पादं मुञ्चन् कण्टकादिभिरुपद्रयेत, अतोऽसौ क्रम-20 णिके परिधाप्यते । आर्या वा 'विधम्' अध्वानं नेतव्याः, तत्र च "दोच्च" ति चौरादिभयम् , ततो वृषभाः क्रमणिकाः पिनह्य पन्थानं मुक्त्वा पार्थस्थिता गच्छन्ति, आदिशब्दात् सर्वाणि वा तत्रोत्पथेन व्रजन्ति । यो वा चक्षुषा दुर्बलः स वैद्योपदेशेनोपानही पिनयति, यतः पादयोरभ्यङ्गनोपानद्वन्धनादिपरिकर्म यत् क्रियते तत् चक्षुष उपकाराय परिणमते । यत उक्तम् - दन्तानामञ्जनं श्रेष्ठं, कर्णानां दन्तधावनम् ।
25 शिरोऽभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुषोः ॥
॥ ३८६५ ॥ कारणजातद्वारमाह
कुलमाइकज दंडिय, पासादी तुरियधावणट्ठा वा।
कारणजाते वऽणे, सागारमसागरे जतणा ॥ ३८६६ ॥ कुलादिषु-कुल-गण-सङ्घविषयेषु कार्येषु दण्डिकावलगनार्थम् , पार्थस्थितैः आदिशब्दात् 30 पुरः पृष्ठतो वा गच्छद्भिः, त्वरितं वा धावनार्थम् , कारणजाते वा 'अन्यस्मिन्' आगाढे समु
१ रक्खाए वा विहे तामा० ॥ २ अहेर्वातस्य मो० ले० । अहेर्वाअस्य त• डे० । नेद लेखकलिपिभ्रमनिष्पनं पाठभेदयुगलं समीचीनमिति ॥ ३°दर्शःक्षोभो मा भूदिति भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org