________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ५ तथा जीवोपघातं करोति यथा क्रमणिकाः 'खराः' कर्कशस्पर्शा जीवोपघातं कुर्वन्ति । अपि च भारतासा महान् भवति, ततस्तदाक्रान्ता बहवो जीवा विनाशमनुवते ॥ ३८५७ ॥ निरपेक्षद्वारमाह
कंटाई देहंतो, जीवे वि हु सो तहेव देहिजा।
अत्थि महं ति य कमणी, णावेक्खइ कंटएण जिंए ॥ ३८५८ ।। __ अनुपानको गच्छन् कण्टकादीन् मार्गे प्रेक्षते, ततस्तान् प्रेक्षमाणों जीवानपि तथैवासौ प्रेक्षेत । सोपानकस्तु गच्छन् विद्यते मम क्रमणिके इति कृत्वा निरपायवादात्मनो न कण्टकादिकमपेक्षते, ततश्चासौ जीवेष्वपि निरपेक्षो भवति ॥ ३८५८ ॥ अथ निर्दयद्वारमाह
पुचि अदया भूएसु होति बंधति कमेसु तो कमणी।।
जायति हु तदब्भासा, सुदयालुस्सावि णिदयया ॥ ३८५९ ।। पूर्व तावद् ‘अदया' निर्दयत्वं भूतेषु मनसि सञ्जातं भवति, ततः क्रमयोः क्रमणिके बध्नाति । तदभ्यासाच्च सुदयालोरपि प्रायो निर्दयतैव भवति ॥ ३८५९ ॥ निरन्तरद्वारमाह
अवि यंत्रखुजपादेण पेल्लितो अंतरंगुलगतो वा।
मुच्चेञ्ज कुलिंगादी, ण य कमणीपेल्लितो जियती ॥ ३८६० ॥ is कुशब्दस्येषदर्थवाचकतया असम्पूर्णानि लिङ्गानि-इन्द्रियाणि यस्यासौ कुलिङ्गी-विकलेन्द्रियः स आदिशब्दाद् मण्डूक्यादिश्च अनुपानकस्य पादेन प्रेरितः, 'अपि' इति सम्भावनायाम् , सम्भाव्यतेऽयमर्थः-यदामकुब्जं पादतलमध्यं तत्र तथा अन्तराङ्गुलम्-अङ्गुलीनामङ्गुष्ठस्य चापान्तरालं तत्र वा गतः सन् 'मुच्येत' न म्रियेत, सोपानकस्य तु निरन्तरभूमिस्पर्शिनीभिः क्रमणीमिः प्रेरितः-आक्रान्तो न जीवति, अवश्यं मरणमाप्नोतीत्यर्थः ॥ ३८६० ॥ 20 मूतोपघातद्वारमाह
किंह भूयाणुवघातो, ण होहिती पगतिपेलवतणूणं ।
सभराहि पेल्लियाणं, कक्खडफासाहिँ कमणीहिं ।। ३८६१ ॥ 'कथं' केन प्रकारेण 'भूतानां' प्राणिनां प्रकृत्या-खभावेनैव पेलवतनूनाम्-अदृढशरीराणां 'सभाराभिः' पुरुषभाराक्रान्ताभिः कर्कशस्पर्शाभिः क्रमणीभिः प्रेरितानामुपघातो न भविष्यति ? ५ भविष्यत्येवेत्यर्थः । यत एते दोषा अतः क्रमणिका न परिधातव्याः । कारणे तु प्राप्ते परि• दध्यादपि ॥ ३८६१ ॥ किं पुनस्तत् कारणम् ? इत्याह
विह अतराऽसहु संभम, कोट्ठाऽरिस चक्खुदुब्बले बाले ।
___ अजा कारणजाते, कसिणग्गहणं अणुण्णायं ॥ ३८६२ ॥ _ विहं-अध्वा, अतरः-ग्लानः, असहिष्णुर्नाम-राजादिदीक्षितः सुकुमारपादः, सम्भ्रमः50 चौर-श्वापदादिसंक्षोभः, कुष्ठरोगी अर्शोरोगी चक्षुषा वा दुर्बलः कश्चिद् भवति, वालो वा यदि
यत्र तत्र पादौ निक्षिपति, आर्या वा अध्वानं नीयन्ते, कारणजातं वा-कुल-गण-सङ्घविषयमुपस्थितम् । एतेषु कृत्स्नस्य चर्मणो ग्रहणमनुज्ञातमिति द्वारगाथासमासार्थः ॥ ३८६२ ॥ १न्दस्य कदर्थ मो० ले० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org