________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ चर्मप्रकृते सूत्रम् ५ चर्म तद् 'अष्टादशकम्' अष्टादशभिः खण्डः कर्त्तव्यमित्यर्थः । तानि च खण्डानि द्वयोरपि पार्श्वयोः परिधातव्यानि इति सङ्ग्रहगाथासमासार्थः ॥ ३८४६ ॥ अथैनामेव विवरीपुराह
एगपुड सकलकसिणं, दुपुडादीयं पमाणतो कसिणं ।
खल्लग खउसा वग्गुरि, कोसग जंघऽड्डजंघा य ॥ ३८४७ ॥ 6 'एकपुटम्' एकतलं चर्म सकलकृत्स्नमुच्यते । 'द्विपुटादिकं' द्वि-त्रिप्रभृतितलं तु प्रमाणतः कृत्स्नम् । तथा खल्लका द्विधा-अर्धखल्लका समस्तखल्लका च । या पादाई छादयति साऽर्धखल्लका, या पुनरुपानत् सम्पूर्ण पादं स्थगयति सा समस्तखल्लका । या तु घुण्टकं पिदधाति सा खपुसा । या पुनरङ्गुलीश्छादयित्वा पादावप्युपरि च्छादयति सा वागुरा । यत्र तु 'पाषा
णादिषु प्रतिस्फलिताः पादनखाः मा भज्यन्ताम्' इति बुद्ध्या अङ्गुल्योऽङ्गुष्ठो वा प्रक्षिप्यन्ते स 10 कोशकः । या तु सम्पूर्णा जङ्घा पिदधाति सा जङ्घा । जङ्घार्धपिधायिनी सैवार्धजङ्घा । एतान्यपि प्रमाणकृत्स्नानि ॥ ३८४७ ॥ अथैतदेव स्पष्टयति
पायस्स जं पमाणं, तेण पमाणेण जा भवे कमणी ।
मज्झम्मि तु अक्खंडा, अण्णत्थ व सकलकसिणं तु ॥ ३८४८ ॥ पादस्य यत् प्रमाणं तेन प्रमाणेन या युक्ता क्रमणिका मध्यप्रदेशेऽन्यत्र वाऽखण्डा भवति 15 तदेतत् सकलकृत्स्नमुच्यते ॥ ३८४८॥
दुपुडादि अद्धखल्ला, समत्तखल्ला य वग्गुरी खपुसा ।
अद्धजंघ समत्ता य, पमाणकसिणं मुणेयव्यं ॥ ३८४९ ॥ 'द्विपुटादिका' द्वि-त्रिप्रभृतितलोपेता या उपानद् या वाऽर्धखल्ला समस्तखल्ला वागुरा खपुसा अर्धजङ्घा समस्तजङ्घा चेति सर्वमप्येतत् प्रमाणकृत्वं ज्ञातव्यम् ॥ ३८४२ ॥ 20 तत्रैव कानिचिद् विषमपदानि व्याचष्टे
उवरिं तु अंगुलीओ, जा छाए सा तु वग्गुरी होति ।
खपुसा य खलुगमेत्तं, अद्धं सव्वं च दो इयरे ॥ ३८५०॥ या पादयोरङ्गुलीश्छादयित्वोपर्यपि छादयति सा वागुरा भवति । खलुकः-घुण्टकः तन्मात्रं यावदाच्छादयन्ती खपुसा । 'इतरे तु द्वे' जङ्घा-ऽर्धजङ्घालक्षणे अर्धा सर्वां च जवां यथाखं 25 छादयत इति ॥ ३८५० ॥ गतं प्रमाण कृत्स्नम् , अथ वर्णकृत्स्न-बन्धनकृत्स्ने प्रतिपादयति
वण्णड्ड वण्णकसिणं, तं पंचविहं तु होइ नायव्वं ।।
बहुबंधणकसिणं पुण, परेण जं तिण्ह बंधाणं ॥ ३८५१ ॥ __ यत् चर्म वर्णेन आढ्यम्-उज्ज्वलमित्यर्थः तद् वर्णकृत्स्नम् । तच्च कृष्णादिवर्णभेदात् पञ्चविध ज्ञातव्यम् । यत्तु त्रयाणां बन्धानां 'परतः' बहुभिर्बन्धैर्बद्धं तद् बन्धनकृत्स्नमुच्यते 30॥ ३८५१ ॥ अथैतेष्वेव प्रायश्चित्तमाह
लहुओ लहुगा दुपुडादिएसु गुरुगा य खल्लगादीसु । १ खल-ऽद्धखल्ल-खउसा, घग्गुरि-जंघ-ऽद्धजंघा य ताभा० ॥ २ अत्रैव भा० का० ॥ ३ खल्लकः भा० ॥ ४°गादि ख° ताभा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org