SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ 1o भाष्यगाथाः ३८३७-४६) तृतीय उद्देशः । १०५९ भक्तपरिज्ञावतः' प्रतिपन्नानशनस्य तथा ग्लानस्यास्तरणार्थ कुशादीन्यशुषिरतृणानि गृह्यन्ते । अथ तानि 'खसणि' कर्कशानि न वा तानि प्राप्यन्ते ततः शुषिराण्यपि तृणानि ग्रहीतव्यानि । अथवा भक्तप्रत्याख्यानिनो ग्लानस्य वा सुखशयनार्थं प्रथमतः 'अप्रत्युपेक्ष्यदूष्यम्' उपधानतूल्यादि ग्रहीतव्यम् , तदभावे यथाक्रममशुषिर-शुषिराणि पश्चात् तृणानि भवन्ति, तानि प्रस्तीर्यन्त इत्यर्थः ॥ ३८४२ ॥ दुप्पडिलेहियदूसे, अद्धाणादी विवित्त गेण्हंति । घेप्पति पोत्थगपणगं, कालिय-णिज्जुत्तिकोसट्टा ॥ ३८४३ ॥ अध्वादौ 'विविक्ताः' मुषिताः सन्तो यथोक्तमुपधिमलभमानाः 'दुष्प्रत्युपेक्ष्यदूष्याणि' कोयवि-प्रावारप्रभृतीनि गृह्णन्ति । तथा मति-मेधादिपरिहाणिं विज्ञाय कालिकश्रुतस्य उपल: क्षणत्वाद् उत्कालिकश्रुतस्य वा नियुक्तीनां चाऽऽवश्यकादिप्रतिबद्धानां दान-ग्रहणादौ कोश 19, इव-भाण्डागारमिवेदं भविष्यतीत्येवमर्थं पुस्तकपञ्चकमपि गृह्यते ॥ ३८४३ ॥ सूत्रम् नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाई चम्माइं धारित्तए वा परिहरित्तए वा ५॥ अस्य सम्बन्धमाह चम्मं चैवाहिकयं, तस्स पमाणमिह मिस्सिए सुत्ते । अपमाणं पडिसिज्झति, ण उ गहणं एस संबंधो ॥ ३८४४ ॥ इह पूर्वसूत्रे चर्मैव तावदधिकृतम् अतः 'तस्य' चर्मणः प्रमाणमिह 'मिश्रिते' निर्ग्रन्थ-निम्रन्थीप्रतिबद्धे सूत्रे प्ररूप्यते, 'अप्रमाणं' प्रमाणातिरिक्तं तत् प्रतिषिध्यते, न पुनः सर्वथा चर्मणो ग्रहणम् । एष सम्बन्धः ॥ ३८४४ ॥ अहवा अच्छुरणट्ठा, तं वुत्तमिदं तु पादरक्खट्ठा । तस्स वि य वण्णमादी, पडिसेहेती इहं सुत्ते ॥ ३८४५ ॥ अथवा 'तत्' पूर्वसूत्रोक्तं चर्म आस्तरणार्थमुक्तम् , 'इदं तु' प्रस्तुतसूत्रे पादरक्षार्थमुच्यते । 'तस्यापि च' चर्मणो ये वर्णादयो गुणास्तद्युक्तमिह सूत्रे प्रतिषेधयतीति ॥ ३८४५ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा 25 'कृत्लानि' वर्ण-प्रमाणादिभिः प्रतिपूर्णानि चर्माणि धारयितुं वा परिहर्तुं वेति सूत्रार्थः ॥ अथ भाष्यविस्तरः सगल प्पमाण वण्णे, बंधणकसिणे य होइ णायव्वे । [नि. ९१३-६५] अकसिणमट्ठारसगं, दोसु वि पासेसु खंडाई॥ ३८४६ ॥ कृत्स्नं चतुर्धा-सकलकत्सं १ प्रमाणकृत्सं २ वर्णकृत्स्नं ३ बन्धनकृत्स्नं ४ चेति भवति 30 ज्ञातव्यम् । एतच्चतुर्विधमपि न कल्पते प्रतिग्रहीतुम् । परः प्राह-यद्येवं ततो यद् अकृत्स्नं १ च देश्येकादिप्र° ताटी० ॥ २ °णगादी भा० का० विना ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy