________________
10
१०५८
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ५ तत्र हि त्रसादयः प्राणिनो न भवन्ति, तच्च गृहीत्वा 'यतनया' रोमाण्युपरि कृत्वा परिभोक्तव्यम् । आगाढे च ग्लानत्वे यत् तैलेन म्रक्षणं तदर्थम् , यस्य वा गुदादिपार्थाणि घृष्टानि, यो वा साधुभिन्नकुष्ठी, यस्य वा अर्शासि समुद्भूतानि तदर्थं वा निलोम चर्म ग्रहीतव्यमिति सङ्ग्रहगाथासमासार्थः ॥ ३८३६ ॥ अथैनामेव विवृणोति
संथारट्ट गिलाणे, अमिलादीचम्म घेप्पति सलोमं ।
वुड्डा-ऽसहु-बालाण व, अच्छुरणहा वि एमेव ॥ ३८३७ ॥ ग्लानस्य संस्तारकार्थममिलादिसम्बन्धि सलोम चर्म गृह्यते । वृद्धा-सहिष्णु-बालानामप्यास्तरणार्थम् 'एवमेव' सलोम चर्म ग्राह्यम् ॥ ३८३७ ॥ तच्च कीदृशम् ? इत्याह
कुम्भार-लोहकारेहिं दिवसमलियं तु तं तसविहूणं ।
उवरि लोमे काउं, सोत्तुं गोसे समप्पेंति ॥ ३८३८ ॥ ___ कुम्भकार-लोहकारादिभिः स्वखकर्म कुर्वाणैर्य दिवसतो 'मलितं' परिभुक्तं तत् त्रसविहीनं भवति । अतः सन्ध्यासमये तेषु उत्थितेषु तत् प्रातिहारिकं गृहीत्वा लोमान्युपरि कृत्वा रात्रौ तत्र सुप्त्वा 'गोसे' प्रभाते प्रत्यर्पयन्ति ॥ ३८३८ ।।
अवताणगादि णिल्लोम तेल्ल वम्मट्ट घेप्पती चम्मं ।
घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥ ३८३९ ॥ अवयाणादितैलेन वा ग्लानस्याभ्यङ्गे विधातव्ये निर्लोम चर्म ग्रहीतव्यम् । अध्वानादौ वा वर्मार्थम् , यस्य वा पार्थाणि घृष्टानि तस्यास्तरणार्थम् , यो वा गलत्कुष्ठः साधुस्तस्य परिधानार्थमास्तरणार्थ वा, अर्शासि वा यस्य समुत्पन्नानि तस्योपवेशनार्थ निर्लोम चर्म गृह्यते ॥३८३९॥
सोणिय-पूयालित्ते, दुक्खं धुवणा दिणे दिणे चीरे।।
कच्छल्ले किडिभिल्ले, छप्पतिगिल्ले व णिल्लोमं ॥ ३८४०॥ शोणितेन पूयेन वा आलिप्तस्य चीवरस्य दिने दिने धावना दुष्करा, अतः कच्छ्वतः किटिभवतश्च निर्लोम चर्म कल्पते । कच्छू:-पामा, किटिभं-शरीरैकदेशभावी कुष्ठभेदः । तथा यस्य षट्पदिकाः प्राचुर्येण सम्मूर्च्छन्ति स षट्पदिकावान् निर्लोमचर्मपरिधानं
गृह्णाति ॥ ३८४० ॥ 25
जह कारणे निल्लोमं, तु कप्पती तह भवेज इयरं पि । __ आगाढि सलोमं आदिकाउ जा पोत्थए गहणं ॥ ३८४१॥ यथा कारणे निर्लोम चर्म 'कल्पते तथा 'इतरदपि' शुषिरमपि ग्रहीतुं कल्पते । किं बहुना ? आगाढे कारणे सलोम चर्म आदौ कृत्वा पश्चानुपूर्ध्या तावद् नेतव्यं यावत् पुस्तकस्यापि ग्रहणं कर्तव्यम् ॥ ३८४१ ॥ एतदेव स्पष्टयति
भत्तपरिण गिलाणे, कुसमाइ खराऽसती तु झुसिरा वि ।
अप्पडिलेहियदूसाऽसती य पच्छा तणा होती ॥ ३८४२ ॥ १°मये तत् मो० ले० । °मये ते तत् त० डे० ॥ २ अत्र शिष्यः प्रश्नयति इत्यवतरणं भा० । न चैतत् सम्यक्सङ्गतिमत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org