________________
भाष्यगाथाः ३८२७-३६] तृतीय उद्देशः ।
१०५७ यावन्मात्रान् वारान् पुस्तकं 'मुञ्चति' छोटयति, यति वारांश्च बध्नाति, 'यति वा' यावन्ति अक्षराणि लिखति 'तति' तावन्ति चतुर्लघूनि । यच्च कुन्थु-पनकादीनां सङ्घट्टनं परितापनमपद्रावणं वा आपद्यते तन्निप्पन्नं प्रायश्चित्तम् ॥ ३८३१ ॥ अथ तृणपञ्चकादिषु दोषानाह
तणपणगम्मि वि दोसा, विराहणा होति संजमा-ऽऽताए ।
सेसेसु वि पणगेसुं, विराहणा संजमे होति ।। ३८३२॥ __ तृणपञ्चकेऽपि 'दोषाः' आज्ञाभङ्गादयो भवन्ति, विराधना च संयमा-ऽऽत्मविषया । 'शेषेष्वपि' दूण्यपञ्चकादिषु संयमविषया विराधना भवति ॥ ३८३२ ॥ इदमेव भावयति
अहि-विचुग-विसकंडगमादीहि खयं व होज आयाए ।
कुंथादि संजमम्मि, जति उव्वत्तादि तति लहुगा ॥ ३८३३ ॥ तृणादिषु शुषिरत्वादहिर्वा वृश्चिको वा विषकण्टको वा भवेद् एतैः आदिशब्दात् 10 मत्कोटकादिभिश्च तत्र शयान आसीनो वोपद्रूयेत, क्षतं वा दर्भादिषु सुप्तस्य भवेत् , एषाऽऽत्मविराधना । कुन्थु-पनकादिप्राणिव्यपरोपणं तु संयमविराधना । तृणेषु च प्रसुप्तः 'यति' यावतो वारानुद्वर्त्तनं परिवर्तनमाकुञ्चनं प्रसारणं वा करोति 'तति' तावन्तश्चतुर्लघुकाः ॥३८३३॥ अत्र परः प्राह
दिट्ट सलोमे दोसा, णिल्लोमं णाम कप्पती घेत्तुं ।
गिण्हणे गुरुगा पडिलेह पणग तसपाण सतिकरणं ॥ ३८३४ ॥ सलोमचर्मणि यतो दोषा दृष्टाः अतो निर्ग्रन्थानां निर्लोम चर्म 'नाम' इति सम्भावयामः कल्पते ग्रहीतुम् । सूरिराह-यदि निर्लोमचर्मणो ग्रहणं करोति ततश्चतुर्गुरुकाः, यतस्तत्र प्रत्युपेक्षणा न शुध्यति, पनकस्त्रसपाणिनो वा सम्मूर्च्छन्ति, सुकुमारतया भुक्तभोगिनः स्मृतिकरणं भवति अभुक्तभोगिनस्तु कौतुकम् ॥ ३८३४ ॥ इदमेव स्पष्टयति
भुत्तस्स सतीकरणं, सरिसं इत्थीण एयफासेणं ।
जति ता अचेयणम्मि, फासो किमु चेयणे इतरे ॥ ३८३५ ॥ भुक्तभोगिनः स्मृतिकरणं भवति-अहो! स्त्रीणां सम्बन्धी यः स्पर्शोऽस्माभिरनुभूतपूर्वः तेन सदृशमेतत् । चर्मानुभूयते । अभुक्तभोगिनः कौतुकम् , यथा—यदि तावदचेतनेऽपि » चर्मण्येतादृशः सुखस्पर्शोऽनुभूयते किं पुनः सचेतने 'इतरस्मिन्' स्त्रीशरीरे भविता ? । एवं 25 विचिन्त्य प्रतिगमनादीनि कुर्युः । यत एते दोषा अतो निर्लोमापि न ग्रहीतव्यम् ॥३८३५॥ __आह यदि निर्लोम ग्रहीतुं न कल्पते तर्हि मा कल्पताम् , यत्तु सलोमकं तत् तावत् सूत्रेणानुज्ञातम् , भवद्भिस्तु तदपि प्रतिषिद्धम् तदेतत् कथम् ? इति अत्रोच्यते
सुत्तनिवाओ वुड्डे, गिलाण तद्दिवस भुत्त जतणाए ।
आगाढ गिलाणे मक्खणह, घट्टे भिण्णे व अरिसाउ ॥ ३८३६ ॥ 30 सूत्रनिपातो वृद्धे ग्लाने वा भवति, वृद्धस्य ग्लानस्य वा परुषस्पर्शमसहिष्णोरास्तरणार्थ सलोम चर्म ग्राह्यमिति भावः । तच्च 'तदिवसभुक्तं' कुम्भकारादिभिस्तस्मिन्नेव दिवसे परिमुक्तम् , १°शमिदं भा० ॥२-३ १ एतचिह्नान्तर्गतः पाठः भा० का० एव वर्त्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org