________________
सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ४ पनकादिसंसक्तिलक्षणं भवति; यद्वा तत् पुस्तकं स्तेनैरपहियेत ततोऽधिकरणम् । तीर्थकरैरदत्तश्चायमुपधिः । स्थानान्तरे च पुस्तकं सङ्क्रामयतः पलिमन्थः । 'प्रमादो नाम' पुस्तके लिखितमस्तीति कृत्वा न गुणयति, अगुणनाच्च सूत्रनाशादयो नोषाः । परिकर्मणायां च सूत्रार्थपरिमन्थो भवति । अक्षरलेखनं च कुर्वतः कुन्थुप्रभृतित्रसप्राणव्यपरोपणेन कृकाटिकादिवाधया च 5 संयमा-ऽऽत्मविराधना ॥ ३८२६ ॥ किञ्च
पोत्थग जिण दिलुतो, वग्गुर लेवे य जाल चक्के य ।।
लोहित लहुगा आणादि मुयण संघट्टणा बंधे ॥ ३८२७ ॥ पुस्तके शुषिरतया यो जन्तूनामुपघातस्तत्र 'जिनैः' तीर्थकृद्भिर्वागुरया लेपेन जालेन चक्रेण च दृष्टान्तः कृतः । “लोहिय" त्ति यदि तेषां पुस्तकान्तर्गतानां जन्तूनां 'लोहितं' रुधिरं भवेत् 10 ततः पुस्तकबन्धनकालेऽक्षराणि परिस्पृश्य तद् रुधिरं परिगलेत् । “लहुग" ति यावतो वास्स्तत्
पुस्तकं बध्नाति मुञ्चति वा अक्षराणि वा लिखति तावन्ति चतुर्लघूनि, आज्ञादयश्च दोषाः । पुस्तकस्य मोचने बन्धे च सङ्घट्टनम् , उपलक्षणत्वात् परितापनमपद्रावणं वा यद् आपद्यते तन्निध्पन्नं प्रायश्चित्तमिति नियुक्तिगाथासमासार्थः ॥ ३८२७ ॥ साम्प्रतमेनामेव विवृणोति
चउरंगवग्गुरापरिवुडो वि फिट्टेज अवि मिगो रण्णे । 15 छीर खउर लेवे वा, पडिओ सउणो पलाएजा ॥ ३८२८ ॥
चतुरङ्गसेनारूपा या वागुरा तया परिवृतोऽपि-समन्ताद् वेष्टितोऽपि मृगः, 'अपि' इति सम्भावनायाम् , सम्भाव्यते अयमर्थः---यत् तथाविधदक्षतादिगुणोपेतो मृगोऽरण्ये तादृशादपायात् स्फिटेत् , न पुनः पुस्तकपत्रान्तरप्रविष्टा जीवाः स्फिटेयुः । तथा 'शकुनः' पक्षी, स
चेह मक्षिकादिः, 'क्षीरे वा' दुग्धे 'खपुरे वा' चिक्कणद्रव्ये 'लेपे वा' अवश्रावणादौ पतितोऽपि 20 पलायेत, न पुनः पुस्तकजीवास्ततः पलायितुं शक्नुयुः ॥ ३८२८॥
सिद्धत्थगजालेण व, गहितो मच्छो वि णिप्फिडेजा हि ।
तिलकीडगा व चक्के, तिला व ण य ते ततो जीवा ॥ ३८२९ ॥ -- सिद्धार्थकाः-सर्षपास्तेऽपि येन जालेन गृह्यन्ते तत् सिद्धार्थकजालम् तेनापि गृहीतो मत्स्यः कदाचिद् निःस्फिटेत् । तथा 'चक्रे' तिलपीडनयन्त्रे प्रविष्टास्तिलकीटका वा तिला वा निर्ग2 च्छेयुः, न च ते जीवाः 'ततः' पुस्तकाद् निर्गन्तुं शक्नुयुः ॥ ३८२९ ॥
जइ तेसिं जीवाणं, तत्थगयाणं तु लोहियं होजा।
पीलिजंते धणियं, गलेज तं अक्खरे फुसितं ॥ ३८३० ॥ यदि तेषां 'तत्रगतानां' पुस्तक-पत्रान्तरस्थितानां 'जीवानां' कुन्थुप्रभृतीनां लोहितं भवेत् ततः पुस्तकबन्धनकाले तेषां 'धणियं' गाढतरं पीड्यमानानां 'तद्' अनन्तरोक्तं रुधिरमक्षराणि 30 स्पृष्ट्वा बहिः परिगलेत् ॥ ३८३० ॥ अत एव
जत्तियमेत्ता वारा, उ मुंचई बंधई व जति वारा ।
जति अक्खराणि लिहति व, तति लहुगा जं च आवजे ॥ ३८३१ ॥ १ रूपया वागुरया 'परि भा० का० ॥ २ सितुं भा० का० ताटी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org