________________
10
भाष्यगाथाः ३८२०-२६] तृतीय उद्देशः ।
१०५५ उवहाण तूलि आलिंगणी उ गंडोवहाण य मसूरा ।
गो-माहिस-अय-एलग-रण्णमियाणं च चम्मं तु ॥ ३८२४ ॥ 'कोयविर्नाम' रूतपूरितः पटः, या लोके 'माणिकी' इति प्रसिद्धा । 'प्रावारकः' नेपालादिरुल्वणरोमा बृहत्कम्बलः । “दाढिगालि' त्ति यथा मुखमध्ये यमलितोभयदन्तपतिरूपा दाढिकालिः-दन्तावलिनिरीक्ष्यते एवं धौतपोतिकाऽपि द्विजसत्कसदशवस्त्रपरिधानरूपा दृश्यमाना 5 दाढिकालिरिव प्रतिभातीति कृत्वा दाढिकालिरुच्यते । पूर्यते-स्तोकैरपि तन्तुभिः पूर्णीभवतीति पूरिका-स्थूलशणगुणमयपटात्मिका, यया धान्यगोणिकाः क्रियन्ते हस्त्याद्यास्तरणानि वा । विरलिका नाम-द्विसरसूत्रपाटी । एतानि पञ्चापि सम्यक् प्रत्युपेक्षितुं न शक्यन्त इति दुःप्रत्युपेक्ष्यदूष्यपञ्चकमुच्यते । इदमन्यद् 'अप्रत्युपेक्ष्याणां' सर्वथाऽपि प्रत्युपेक्षितुमशक्यानां दूष्याणां पञ्चकं भवति ॥ ३८२३ ॥ तद्यथा
'उपधानं' हंसरोमादिपूर्णमुच्छीर्षकम् । 'तूली' संस्कृतरूतादिभृता अर्कतूलादिभृता वा प्रतीता । आलिङ्गनिका पुरुषप्रमाणा, या शयानैर्जानु-कूपरादिषु दीयते । 'गण्डोपधानं' गल्लमसूरिका । 'मसूरकं नाम' चर्मकृतं वस्त्रकृतं वा वृत्तं वूयादिपूर्ण चक्कल-गद्दिकादि । चर्मपञ्चकं पुनरिदम्-गोचर्म, माहिषचर्म, अजाः-छगलिकास्तासां चर्म, एडकाः-अजविशेषास्तच्चर्म, आरण्यकाश्च ये मृगाः-हरिण-शशकादयः तेषां चर्म पञ्चमं ज्ञातव्यम् ॥ ३८२४ ॥ 15 अथात्रैव प्रायश्चित्तमाह
जहिँ गुरुगा तहिँ लहुगा, जहिं लहुगा चउगुरू तहिं ठाणे ।।
दोहिँ लहू कालगुरू, तवगुरुगा दोहि वी गुरुगा ॥ ३८२५ ॥ 'यत्र' सलोमचर्मणि पुरुषतुल्यस्पर्शत्वाद् निर्ग्रन्थीनां चतुर्गुरुकाः प्रायश्चित्तमुक्तं तत्र निर्यन्थानां चतुर्लघुकाः । 'यत्र तु' निर्लोमचर्मणि निर्ग्रन्थीनां चतुर्लघुकाः तत्र निर्ग्रन्थानां चतुर्गु- 20 रुकाः, स्त्रीतुल्यस्पर्शत्वात् । परमुभयेऽपि प्रथमे ग्रहणाख्ये स्थाने द्वाभ्यां लघवः, तपसा कालेन चेत्यर्थः । ऊर्द्धस्थाने कालगुरवः । निषदने तपोगुरवः । त्वग्वर्त्तने 'द्वाभ्यामपि' तपः-कालाभ्यां गुरवः । पुस्तकपञ्चके तृणपञ्चके दूष्यपञ्चकद्वये च निर्ग्रन्थानां निर्ग्रन्थीनां च चतुर्लघवः । आह च चूर्णिकृत्"पोत्थग-तण-दूसेसु चउलहुगा ।"
॥ ३८२५॥ 25 अथ पुस्तकपञ्चके तावद् दोषानुपदर्शयति
संघस अपडिलेहा, भारो अहिकरणमेव अविदिण्णं ।
संकामण पलिमंथो, पमाय परिकम्मणा लिहणा ॥ ३८२६ ॥ पुस्तकादिक ग्रामान्तरं नयतः स्कन्धे सङ्घर्षः स्यात् , ततश्च व्रणोत्पत्त्यादयो दोषाः । शुषिरत्वाच्च तत्र प्रत्युपेक्षणा न शुध्यति । भारो मार्गे गच्छतां भवेत् । अधिकरणं च कुन्थु-30
१ द्विस्तर° भा० ॥ २ ताटी० भा० विनाऽन्यत्र-वूयादि मो० ले० । ब्रूयादि त० डे० कां० ॥ ३°कं वहतः स्क° भा० । "खंधे संघंसो. भवति वहंतस्म"
"खंचंतेण वहंतस्स संघसो भवति" इति विशेषचूर्णी ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org