SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १०५४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ४ भुक्तं तदेव ग्राह्यं नापरिभुक्तम् । तदपि च प्रातिहारिक नाप्रातिहारिकम् । तदपि चैकरात्रिकं नैवानेकरात्रिकमिति सूत्रार्थः । एतद् निर्ग्रन्थानामपवादसूत्रम् ।। अत्र शिष्यः प्राह-निर्ग्रन्थीनां किं कारणं न कल्पते ? सूरिराह दोसा तु जे होति तवस्सिणीणं, लोमाइणे ते ण जतीण तम्मि । तं कप्पती तेसि सुतोवदेसा, जं कप्पती तासि ण तं जतीणं ॥३८२०॥ __ ये 'दोषाः' स्मृतिकरणादयस्तपस्विनीनां लोमयुक्तेऽजिने-चर्मणि भवन्ति ते यतीनां 'तस्मिन् सलोमचर्मणि न भवन्ति । अतस्तत् कल्पते तेषां 'श्रुतोपदेशात्' प्रस्तुतसूत्रवचनात् । यच्च निर्लोम चर्म तासां कल्पते न तद् यतीनाम्, स्मृतिकरणादिदोषप्रसङ्गादिति ॥ ३८२० ॥ सलोमापि चर्म निर्ग्रन्थानामुत्सर्गतो न कल्पते, यत आह10 निग्गंथाण सलोम, ण कप्पती झुसिर तं तु पंचविहं ।। पोत्थग-तणपण दृसं, दुविहं चम्मम्मि पणगं च ॥ ३८२१ ॥ सलोम चर्म निर्ग्रन्थानां न कल्पते, शुषिरं जीवाश्रयस्थानमिति कृत्वा । अथ कतिविधं शुषिरम् ? इति प्रश्नावकाशमाशङ्कयाह—'तत्तु' शुषिरं पञ्चविधम् , तद्यथा-पुस्तकपञ्चकं तृणपञ्चकं दुष्यं-वस्त्रं तत्पञ्चकं 'द्विविधं' अप्रत्युपेक्ष्यदूष्यपञ्चकं दुःप्रत्युपेक्ष्यदूष्यपञ्चकं च चर्मप16ञ्चकं चेति ॥ ३८२१ ॥ एतान्येव यथाक्रमं व्याचष्टे गंडी कच्छति मुट्ठी, छिवाडि संपुडग पोत्थगा पंच । तिण सालि-वीहि-कोद्दव-रालग-आरण्णगतणं च ॥ ३८२२॥ गण्डीपुस्तकः कच्छपीपुस्तकः मुष्टिपुस्तकः सम्पुटफलकपुस्तकः छेदपाटीपुस्तकश्चेति पञ्च पुस्तकाः । एतेषां च स्वरूपमित्थमुक्तं पूर्वसूरिभिः बाहुल्ल-पुहत्तेहिं, गंडीपोत्थो उ तुल्लगो दीहो । कच्छवि अंते तणुओ, मज्झे पिहुलो मुणेयव्यो । चउरंगुलदीहो वा, वट्टागिइ मुट्ठिपुत्थगो अहवा । चउरंगुलदीहो चिय, चउरंसो होइ विन्नेओ । संपुडगो दुगमाई, फलगा वोच्छं छिवाडिमेताहे । तणुपत्तूसियरूवो, होइ छिवाडी बुहा बिंति ॥ दीहो वा हस्सो वा, जो पिहुलो होइ अप्पबाहुल्लो । तं मुणियसमयसारा, छिवाडिपोत्थं भणंतीह ॥ तथा शालीनां १ त्रीहीणां २ कोद्रवस्य ३ रालकस्य च ४ यानि पलालप्रायाणि तृणानि यच्च 'आरण्यकतृणं' श्यामाकादि, एतत् तृणपञ्चकम् ॥ ३८२२ ॥ re अथ दूष्यपञ्चकद्वयं चर्मपञ्चकं चाह कोयव पावारग दाढिआलि पूरी तधेव विरली य । एयं दुपेहपणयं, इणमण्णं अपडिलेहाणं ॥ ३८२३ ॥ १च्छभ मु तामा० ॥ २ एतदने ग्रन्थानम्-१००० ताटी• मो० ले० ॥ 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy