________________
10
भाष्यगाथाः ३८०२-९] तृतीय उद्देशः ।
ब्रह्मव्रतपालनार्थ निर्ग्रन्था निर्ग्रन्थ्यश्चान्योऽन्योपाश्रयं न गच्छन्ति । अत उपकरणमपि तादृशं साधुः साध्वी वा नेच्छति ग्रहीतुम् , यत्र गृहीते 'तस्य' ब्रह्मचर्यस्य पीडा भवति । अयं 'योगः' सम्बन्धः ॥ ३८०५ ॥
सतिकरणादी दोसा, अण्णोण्ण उवस्सगाभिगमणेण ।
सतिकरण-कोउहल्ला, मा होज सलोमए अहवा ॥ ३८०६॥ 5 स्मृतिकरण-कौतुकादयो दोषा अन्योऽन्योपाश्रयाभिगमनेन भवन्ति । अतः सलोमनि चर्मणि गृहीते संयतीनां स्मृतिकरण-कौतूहले मा भूतामिति प्रकृतं सूत्रमारभ्यते । 'अथवा' इत्ययमपरः सम्बन्धः ॥ ३८०६॥ ___ अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि 'अधिछातुं' निषदनादिना परिभोक्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः
चम्मम्मि सलोमम्मि, णिग्गंथीणं उवेसमाणीणं । __ चउगुरुगाऽऽयरियादी, तत्थ वि आणादिणो दोसा ।। ३८०७ ॥ सलोमनि चर्मणि निर्ग्रन्थीनामुपविशन्तीनां चतुर्गुरुकाः । अत एवाचार्य एतत् सूत्रं प्रवतिन्या न कथयति चतुर्गुरवः, प्रवर्तिनी श्रमणीनां न कथयति चतुर्गुरुकाः, श्रमण्यो न प्रतिशृण्वन्ति मासलघु । 'तत्रापि' अकथनेऽश्रवणे सलोमचर्मोपवेशने चाज्ञादयो दोषाः ॥३८०७|| 15 अथानन्तरोक्तमेव प्रायश्चित्तं विशेषयन्नाह
गहणे चिट्ठ णिसीयण, तुयट्टणे य गुरुगा सलोमम्मि ।
णिल्लोमे चउलहुगा, समणीणारोवणा चम्मे ।। ३८०८ ॥ सलोमचर्मणो ग्रहणं कुर्वन्ति चतुर्गुरुकाः तपसा कालेन च लघवः । गृहीत्वा तत्र 'स्थानम्' ऊर्ध्वस्थानरूपं कुर्वन्ति चतुर्गुरुकाः तपसा लघवः कालेन गुरवः, निषदनं कुर्वन्ति 20 चतुर्गुरुकाः तपसा गुरवः कालेन लघवः, त्वग्वर्त्तनं कुर्वन्ति तपसा कालेन च गुरवः । निर्लोमचर्मणि तु चतुर्लघुकाः । एवमेव चतुर्पु स्थानेषु तपः-कालविशेषिता एषा श्रमणीनां 'चर्मणि' चर्मविषयाऽऽरोपणा मन्तव्या ॥ ३८०८ ॥ अत्र दोषान् दर्शयति
कुंथु-पणगाइ संजमें, कंटग-अहि-विच्छुगाइ आयाए ।
भारो भयभुत्तियरे, पडिगमणाई सलोमम्मि ॥ ३८०९ ॥ सलोमचर्मणि कुन्थु-पनकादयो वर्षासु सम्मूछेयुः, तेषु स्थान-निषदनादिना विराध्यमानेषु संयमविराधना । कण्टकेन अहिना वृश्चिकादिना वा तत्रोपविष्टाः सुप्ता वा यद् उपघातमाग्नुवन्ति सा आत्मविराधना । भारश्च मार्गे गच्छन्तीनां तस्य महान् भवति । भयं च स्तेनादिभ्यस्तद्विषयं भवति । भुक्तभोगिनीनां च स्मृतिकरणम् इतरासां तु कौतुकमुपजायते । ततश्च प्रतिगमनं-भूयोऽपि गृहवासाश्रयणम् , आदिशब्दादन्यतीर्थिकगमनादि वा कुर्युः ॥ ३८०९ ॥ 30 अथैनामेव नियुक्तिगाथां व्याख्यानयति
तसपाणविराहणया, चम्म सलोमे उ होति अहिकरणं । १ एषः 'यो भा० ॥ २ “नियुक्ति विस्तरः- चम्मम्मि गाहा” इति चूर्णी विशेपचूर्णौ च ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org