________________
१०५०
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ३ अस्य सम्बन्धमाह
पडिवक्खेणं जोगो, तासि पि ण कप्पती जतीणिलयं ।
णिकारणगमणादी, जं जुजति तत्थ तं णेयं ॥ ३८०२ ॥ "पडिवक्खेणं" ति भावप्रधानत्वाद् निर्देशस्य प्रतिपक्षतया 'योगः' सम्बन्धः क्रियते5 यथा निम्रन्थानां निर्ग्रन्थ्युपाश्रये गमनादिकं कत्तुं न कल्पते तथा 'तासामपि' निर्ग्रन्थीनां 'यतिनिलये' निर्ग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते । एतदर्थप्रतिपादनार्थमिदं सूत्रमारभ्यते । अत्र च 'यत्' प्रायश्चित्त-दोषजालादि पूर्वसूत्रोक्तं 'यत्र' निष्कारणगमनादौ "युज्यते तत्र तद् 'ज्ञेयं' खबुद्ध्याऽभ्यूह्य ज्ञातव्यम् ॥ ३८०२ ॥ __अनेन सम्बन्धेनायातस्यास्य व्याख्या प्राग्वत् ॥ अथ भाष्यम्10
एसेव गमो णियमा, पण्णवण-परूवणासु अजाणं ।
पडिजग्गती गिलाणं, साहुं जतणाएँ अन्जा वि ॥ ३८०३ ॥ 'एष एव' पूर्वसूत्रोक्तो गमो नियमात् प्रज्ञापना-प्ररूपणयोरार्याणामपि मन्तव्यः । प्रज्ञापना नाम-निष्कारणेऽविधिना प्रविशतीत्याद्युल्लेखेन चतुर्भङ्गयाः सामान्यतः कथनम् । प्ररूपणापृथगेकैकभङ्गकस्य स्वरूपनिरूपणम् । तथा साधुं ग्लानमार्याऽपि यतनया तथैव प्रतिजागर्ति 15॥ ३८०३ ॥ नवरम्
सा मग्गइ साधम्मि, सण्णि अहाभद्द संवरादी वा।
देति य से वेदणयं, भत्तं पाणं च पायोग्गं ।। ३८०४ ॥ द्वितीय-तृतीय-चतुर्थभङ्गेषु 'सा' संयती 'साधर्मिक' साधु मार्गयति, तदप्राप्तौ 'संज्ञिनं' श्रावकम् , तदलाभे यथाभद्रकम् , तदभावे 'संवरं-स्नानिकाशोधकम् , आदिशब्दादन्यमपि 20 तथाविधं मार्गयति । यदि चासौ मुधिकया नेच्छति ततस्तस्य वेतनकमपि ददाति । भक्तं पानं च तस्य ग्लानस्य प्रायोग्यमुत्पादयति ॥ ३८०४ ।।
॥ उपाश्रयप्रवेशप्रकृतं समाप्तम् ॥
च म प्र कृतम् 25 सूत्रम्
नो कप्पइ निग्गंथीणं सलोमाई चम्माई अहि
द्वित्तए ३॥ अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
बंभवयपालणट्ठा, अण्णोण्णउवस्सयं ण गच्छंति ।
उवकरणं पि ण इच्छति, जहिं पीला तस्स जोगोऽयं ॥ ३८०५॥ १ पूर्वोक्तो भा० ॥२ "संवरो ण्हाणितासोधओ" इति चूर्णी विशेषचूर्णौ च ॥ ३ जोगेसो भा० । एतदनुसारेणैव भा० टीका । दृश्यता पत्रं १०५१ टिप्पणी १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org