________________
माष्यगाथाः ३७९३-३८०१ ]
तृतीय उद्देशः ।
१०४९
आतङ्केन -रोगेण विप्रमुक्ता सती हृष्टा सञ्जाता, तथा बलिका – उपचितमांस - शोणिता, निर्वृता-खस्थीभूतेन्द्रिया, एवंविधा सती काचिदार्यिका ब्रूयात् — ज्येष्ठार्य ! चिरं संयमभाराक्रान्तावावाम् अत एनं भारं परित्यज्य यथासुखं किञ्चित् कालं तावद् 'विश्राम्यावः' विश्रामं गृह्णीवः ॥ ३७९७ ॥ किञ्च –
दिवं च परामु च रहस्सं गुज्झ एकमेकस्स |
तं वीसमामों अम्हे, पच्छा वि' तवं चरिस्सामो ॥। ३७९८ ॥ 'रहस्यम्' एकान्तयोग्यं यद् गुह्यं तद् मदीयं भवता मयाऽपि भवदीयमुद्वर्त्तन-परिवर्तनादिक्रियासु बहुश एकैकस्य दृष्टं परामृष्टं च, 'तत्' तस्माद् विश्राम्यावः किञ्चित् कालं 'पश्चात् ' पश्चिमे काले तपश्चरिष्यावः ॥ ३७९८ ॥
तं सोच्चा सो भगवं, संविग्गोऽवजभीरू दढधम्मो । अपरिमियसत्तजुत्तो, णिक्कंपो मंदरो चेव ।। ३७९९ ।।
'तत्' तस्या आर्यिकाया वचनं श्रुत्वा स भगवान् 'संविमः ' मोक्षाभिलाषी, अवद्यं पापं ततो भीरुः–चकितः, ‘दृढधर्मा' चारित्रे स्थिरः, अपरिमितम् - इयत्तारहितं यत् सत्त्वं - धृतिबलं तेन युक्तः, अत एव निष्कम्पः 'मन्दर इव' मेरुगिरिरिव । यथा हि मन्दरो वायुना न कम्प्यते एवं परिभोगनिमन्त्रणवायुना स भगवान् न कम्पितवान् ॥ ३७९९ ॥ किन्तु — उद्धंसिया य तेणं, सुड्डु वि जाणाविया य अप्पाणं ।
15
चरसु तवं निस्संकों, उ सासियं सो उ चेतेइ || ३८०० ॥
‘उद्धर्षिता' खरण्टिता गाढं तेन भगवता सा संयती, यथा - निर्धमें ! ईदृशं दुःखमनुभूय भवत्या वैराग्यमपि न सञ्जातम्, मयाऽपि साधर्मिकेति कृत्वा भवती चिकित्साकरणेन प्रगुणीकृता, इतरथा मृता अभविष्यत् । एवं 'सुष्ठु अतीव ज्ञापिता सा 'आत्मानं' आत्मनो निरभिला - 20 षतामित्यर्थः । ततश्च चर सम्प्रति निःशङ्का तपःकर्म, एवं तां शासित्वा 'सः' साधुः आवश्यक 'चेतयति' गमनं करोतीत्यर्थः || ३८०० || अथ द्वितीयपदमाह–
बियप मणप्पज्झे, पविसे अविकोविए व अप्पज्झे ।
-गण-आउसंभम, बोहिकतेणेसु जाणमवि ।। ३८०१ ॥
6
सूत्रम् —
नो कप्पइ निग्गंधीणं निग्गंथउवस्यंसि चिट्टित्तए वा जाव काउस्सग्गं वा ठाणं ठाइत्तए २॥
द्वितीयपदे संयतवसतौ ' अनात्मवश: ' क्षिप्तचित्तादिको नैषेधिकीत्रयकरणमन्तरेणापि 25 प्रविशेत् । आत्मवशो वा यः 'अविकोविदः ' शैक्षः सोऽप्यविधिना प्रविशेत् । यद्वा स्तेनाऽम्न्यप्कायसम्भ्रमेषु बोधिकस्तेनेषु वा 'जानन्नपि ' गीतार्थोऽपि सहसा प्रविशेत् ॥ ३८०१ ॥
१ वि वयं चरि° तामा• ॥ २ का, तु सासितुं सो ताभा० ॥
For Private & Personal Use Only
Jain Education International
10
30
www.jainelibrary.org