________________
१०४८ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् २ एवमुक्ते स किं करोति ? इत्याह
सो मग्गति साहम्मि, सणि अहाभदिगं व सूई वा।
देति य से वेदणगं, भत्तं पाणं व पाउग्गं ॥ ३७९३ ॥ 'सः' असहिष्णुः साधुस्तत्रान्यत्र वा ग्रामे 'साधर्मिकी' संयती मार्गयति, तत्र च प्रथम 5 संविनां गीतार्थाम् , तदभावे संविनामगीतार्थाम् , तदलामे पार्श्वस्थां गीतार्थाम् , तदप्राप्तौ पार्श्वस्थामेवागीताम् । अथ संयती न प्राप्यते ततः 'संज्ञिनीं' श्राविकाम् , तामपि प्रथम गृहीताणुव्रताम् , ततो दर्शनश्राविकामपि; तदप्राप्तौ यथाभद्रिकामपि गवेषयति । तदलाभे 'सूतिकां' नवप्रसूतस्त्रीसूतिकर्मकारिणी मार्गयति । सा च धर्मकथया प्रज्ञाप्यते यथा मुधि
कयैव संयत्या वैयावृत्त्यं करोति । अथासौ मुधिकया नेच्छति ततो वेतनमपि तस्यै भक्तं पानं 10 वा प्रायोग्यं ददाति ।। ३७९३ ॥
एयासिं असतीए, ण कहेति जहा अहं खु मिं असहू ।
सद्दादीजयणं पुण, करेमों एसा खलु जिणाणा ॥ ३७९४ ॥ 'एतासाम्' अनन्तरोक्तस्त्रीणामभावे स साधुस्तस्याः पुरतो नैवं कथयति, यथा-अहमसहिष्णुरस्मि परमेवं वचेतसि निश्चिनोति, यथा-शब्दादिविषयां यतनां कुर्मः । एषा 'खलु' 15 निश्चितं जिनानामाज्ञा ॥ ३७९४ ॥ यतनामेवाह
सद्दम्मि हत्थ-वत्थादिएहिँ दिद्विम्मि चिलिमिणंतरिओ।
संलावम्मि परम्मुहों, गोवालगकंचुतो फासे ॥ ३७९५ ॥ यद्यसौ साधुः शब्देऽसहिष्णुस्ततस्तां ग्लानां भणति—मा वचनेन मां व्यापारयः, किन्तु हस्तेन वा वस्त्रेण वा अङ्गुल्या वा संज्ञां कुर्याः । यस्तु दृष्टिक्लीबः स सर्वमपि वैयावृत्त्यं 20 चिलिमिलिकया अन्तरितः करोति । अथासौ संलापक्लीवस्ततोऽवश्यसंलपनीये पराङ्मुखः
संलापं करोति । स्पर्शक्लीबस्तु गोपालककञ्चकमात्मना प्रावृत्य तस्याः सर्वमप्युद्वर्तनादिकृत्यं करोति ॥ ३७९५ ॥ गतो द्वितीयभङ्गः । अथ तृतीय-चतुर्थभङ्गयोरतिदेशमाह
एसेव गमो नियमा, निग्गंथीए वि होति असहए ।
दोन्हं पि हु असहूणं, तिगिच्छ जयणाएँ कायव्वा ॥ ३७९६ ॥ __'एष एव' द्वितीयभङ्गोक्तः 'गमः' प्रकारो नियमाद् निम्रन्थ्यामप्यसहिष्णौ कर्त्तव्यः । नवरं यां शब्दादियतनामसावात्मना कृतवान् तां सा संयती कारयितव्या । 'द्वयोरपि च' संयती-संयतयोरसहिष्ण्वोः 'यतनया' द्वितीय-तृतीयभङ्गोक्तया चिकित्सा कर्त्तव्या ॥३७९६ ॥
गुणीभूता च काचिदिदं ब्रूयात्-- 30
आयंकविप्पमुक्का, हट्ठा बलिया य णिव्या संती । ___अजा भणेज काई, जेडजा! वीसमामो ता ॥ ३७९७ ॥ १ परं शब्दादिविषयां यतनां करोति । एषा भा० ॥२ दिट्ठी' चि ताभा० ॥ ३॥ एतदन्तर्गतमवतरणं भा० नास्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org