SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३७८४-९२] तृतीय उद्देशः । १०४७ कायव्यों पुरिसकारो, समाहिसंधाणणट्ठाए ॥ ३७८७ ॥ 'साध्वी सहिष्णुः साधुरसहिष्णुः' इत्ययं भङ्गो भाव्यते-'नापि च नैव सर्वोऽपि साधुः 'एतादृशे स्त्रियाः स्पर्शादावपि मनोनिग्रहात्मके कार्ये समर्थों भवेत् ततः किं सा ग्लाना सती तेन परित्यक्तव्या ? न इत्याह-ज्ञान-दर्शन-चारित्राणां यः समाधिः-अन्योऽन्याविरोधेनैकत्रावस्थानं तस्य सैन्धानार्थ तथा साधुना पुरुषकारः कर्त्तव्यः यथा तस्याश्चिकित्सा क्रियते आत्मनश्च 5 शीलखण्डना न भवति ॥ ३७८७ ॥ स पुनः साधुः कथमसहिष्णुर्भवति ? इत्युच्यते सोऊण य पासित्ता, संलावणं तहेव फासेणं ।। एतेहि असहमाणे, तिगिच्छ जयणाइ कायव्वा ।। ३७८८ ॥ स्त्रियाः शब्दं श्रुत्वा रूपं वा तदीयं दृष्ट्वा तया सार्द्ध वा यः संलापो यो वा तस्याः स्पर्श स्तेन वा तस्य मोहोद्भवः समुल्लसति । एतैः प्रकारैः 'असहमानः' इन्द्रियनिग्रहं कर्तुमक्षमो 10 यस्तेन यतनया चिकित्सा कर्तव्या । तद्यथा-प्रथमं सा ग्लाना प्रष्टव्या--आर्ये ! भवती किं सहिष्णुः ? उतासहिष्णुः ? । सा च गीतार्था वा भवेदगीतार्था वा ॥ ३७८८ ॥ तत्र अविकोविया उ पुढा, भणाइ किं मं न पाससी णियए । छग-मुत्ते लोलंति, तो पुच्छसि किं सहू असहू ॥ ३७८९ ॥ 'अविकोविदा' अगीतार्था पृष्टा इदं भणति-किं मां न पश्यसि निजके छगण-मूत्रे लोल- 16 न्तीम् ? तत एवं पृच्छसि किं सहिष्णुः ? असहिष्णुः ? इति ॥ ३७८९ ॥ साधुराह पासामि णाम एतं, देहावत्थं तु भगिणि! जा तुझं । पुच्छामि घितिबलं ते, मा बंभविराहणा होजा ॥ ३७९० ॥ 'नाम' इति कोमलामन्त्रणे, भगिनि ! पश्याम्यहमेनां देहावस्था या साम्प्रतं तव वर्त्तते, परमहं 'ते' तव धृतिबलं पृच्छामि, मा मम तव च ब्रह्मवतविराधना भवेदिति कृत्वा ॥३७९०॥ 20 ततः साध्वी ब्रूते इहरा वि ताव सद्दे, रूवाणि य बहुविहाणि पुरिसाणं । सोऊण व दट्टण व, ण मणक्खोभो महं कोति ॥ ३७९१ ॥ 'इतरथाऽपि' नीरोगाया अपि मम तावत् पुरुषाणां गीतादीन् शब्दान् श्रुत्वा रूपाणि च 'बहुविधानि' विशिष्टनेपथ्यालङ्कृतानि दृष्ट्वा 'कोऽपि' मनागपि न मनःक्षोभो भवति ॥३७९१।। 25 किञ्च संलवमाणी वि अहं, ण यामि विगति ण संफसित्ताणं । हट्ठा वि किन्तु एण्हि, तं पुण णियगं धितिं जाण ॥ ३७९२ ॥ अहं सकलमपि दिवसं पुरुषेण सह संलपन्ती 'विकृति' विकारं न यामि, न वा पुरुषस्य हस्ताद्यवयवं संस्पृश्यापि विकारं गच्छामि । तदेवं 'हृष्टाऽपि' नीरोगाऽप्यहमेवं सहिष्णुः, किं 30 पुनः 'इदानीं' ग्लानाद्यवस्थां प्राप्ता ? त्वं पुनः 'निजकाम्' आत्मीयां धृतिं जानीहि ॥३७९२॥ १ संधारणटाए भा० । एतदनुसारेणैव भा. टीका । दृश्यतां टिप्पणी २ ॥ २सन्धारणार्थ भा० ॥ ३°यवसंस्पृष्टाऽपि भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy