________________
15
सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [निर्मन्थ्युपा०प्र० सूत्रम् १ भवितव्यम् । अथ किमर्थमेवं करोति? इति चेर्दै इत्याह-'परप्रत्ययार्थ' परेषाम् अगारिणां प्रतीत्युत्पादननिमित्तम् , यथा-नैष विरुद्धाभिप्रायेणात्र वसति । 'अपरेषां च' साधूनां श्लाघनार्थम् , धन्या अमी येषामेवंविधः सुदृष्टो धर्म इति ॥ ३७८३ ॥
सो निजराऍ वट्टति, कुणति य आणं अणंतणाणीणं ।
स बितिञ्जओ कहेती, परियट्टेगागि वसमाणो ॥ ३७८४ ॥ 'सः' साधुरेवं कुर्वन् विपुलायां निर्जरायां वर्त्तते, आज्ञां च 'अनन्तज्ञानिनां' तीर्थकृतां करोति । स च सद्वितीयो वसन् तस्य द्वितीयस्य धर्म कथयति, अथैकाकी वसति ततः सर्वामपि रात्रिं परिवर्त्तयति ॥ ३७८४ ॥
पडिजग्गिया य खिप्पं, दोण्ह सहूणं तिगिच्छ जतणाए ।
तत्थेव गणहरो अण्णहिं व जयणाएँ तो नेइ ॥ ३७८५ ॥ एवं तेन साधुना प्रतिजागरिता सा 'क्षिप्रं' शीघ्रं प्रगुणीभवेत् । इत्थं द्वयोः सहिष्ण्वोयतनया चिकित्साकरणमुक्तम् । तां च प्रगुणीभूतां गृहीत्वा यदि तस्या गणधरः 'तत्रैव' आसन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति । अथ 'अन्यत्र' दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, खयं वा यतनया तत्र नयति ॥ ३७८५ ॥ कथम् ? इत्याह
निक्कारणिगिं चमढण, कारणिगि णेति अहव अप्पाहे ।
गमणित्थि मिस्स संबंधि वजिते असति एगागी ॥ ३७८६ ॥ यदि सा ग्लाना संयती निष्कारणं गणाद निष्क्रम्यैकाकिनी भूता ततस्तां 'चमढयति' निर्भर्सयतीत्यर्थः । अथ कारणिका ततस्तां खयं नयति, येषां वा आचार्याणां सा संयती तेषां सन्दिशति, यथा—युष्माकं संयती साम्प्रतमत्र तिष्ठति, अस्या आनयनकृते सङ्घाटकः प्रहेयः । 20 यदा पुनः स खयं नयति तदा इयं यतना-“गमणित्थि" इत्यादि । स्त्रीसार्थेन सम्बन्धिना
समं प्रथमतो नयति, स ततः स्त्रीसार्थेनैवासम्बन्धिमिश्रेण, » ततः स्त्रीसार्थेनैवासम्बन्धिना । ततः पुरुषमिश्राभिरपि स्त्रीभिः-प्रथमं सम्बन्धिपुरुषयुक्ताभिः, ततोऽसम्बन्धिमिश्रपुरुषयुताभिः, » ततोऽसम्बन्धिपुरुषयुक्ताभिरपि । ततः पुरुषैरेव केवलै:-प्रथमं सम्बन्धिभिः, ततोऽसम्बन्धिमित्रैः, ततोऽसम्बन्धिभिरपि समं नयति । एषां प्रकाराणामभावे स साधुरेकाक्यपि तां 25 नयति, तत्र चात्मना पुरतो गच्छति, संयती तु नासन्ने नातिदूरे पृष्ठतः स्थिता आगच्छति ॥ ३७८६ ॥ गतः प्रथमो भङ्गः । अथ द्वितीयं भङ्गं बिभावयिषुराह
न वि य समत्थो सव्वो, हवेज एतारिसम्मि कजम्मि । १°द् उच्यते-'पर' कां ॥
२-३ AD एतचिह्नान्तर्गतः पाठः भा० एव वर्तते । चर्णिरप्येतत्पाठसंवादिनी, तथा च तत्पाठः"निकारणिए गाधा कण्ठ्या । इत्थिसत्थेण संबंधिणा समंति, असइ इत्थीसत्थेण चेव असंबंधिमीसेणं, असति इत्थिसत्थेण चेव असंबंधिणा । एवं पुममीसाहिं वि थीहिं तिगं, पुरिसेहिं पि तिग। अण्णे भणति-इत्थिसत्थेण समं णेति, असति इत्थिमीसेणं, असति संबंधेयपुरिसेहिं समं । असति 'वजितेत्ति असंबंधेएहि समं । असतीते तेसिं सत्थाणं एगागी विणेति ॥" इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org