________________
16
भाष्यगाथाः ३७७४-८३] तृतीय उद्देशः ।
१०४५ तमार्थमाराधयति । नमस्कारश्च तस्या मरणवेलायां दातव्य इति ॥ ३७७८ ॥ क्रियासाध्याया विधिमाह
दव्वं तु जाणियव्वं, समाधिकारं तु जस्स जं होति ।
णायम्मि य दव्वम्मि, गवसणा तस्स कायव्वा ॥३७७९॥ यस्य रोगस्य यद द्रव्यं पथ्यं यस्या वा ग्लानाया यत् समाधिकारकं तत् प्रथमत एव ज्ञात-5 व्यम् । ज्ञाते च तस्मिन् द्रव्ये सर्वप्रयत्नेन तस्य गवेषणा कर्त्तव्या ।। ३७७९ ॥
सयमेव दिट्ठपाढी, करेति पुच्छति अजाणओ वेजं । [ओ.नि. ७५]
दीवण दव्वादिम्मि य, उवदेसे ठाति जा लंभो ॥ ३७८० ॥ वैद्यकशास्त्ररूपो दृष्टः पाठो येन स एवंविधः स्वयमेव चिकित्सां करोति । अथ 'अज्ञः' वैद्यकशास्त्राभिप्रायं न जानाति ततो वैद्यं पृच्छति । तस्य च वैद्यस्य दीपनं करोति, यथा-अहं 10 कारणत एकाकी सञ्जातः, अतो मा अपशकुनं गृहध्वम् । ततो वैद्येन द्रव्य-क्षेत्र-काल-भावमेदात् चतुर्विधे उपदेशे दत्ते सति ब्रवीति-यदि वयमेतन्न लभामहे ततः किं प्रयच्छामः। एवं पृष्टे भूयो द्रव्यान्तरे उपदिष्ट ब्रूते-यद्येतदपि न लभामहे ततः किं कर्त्तव्यम् । एवं तावत् पृच्छति यावद् यस्य द्रव्यस्य ध्रुवो लाभः । तदुपदेशे च पृच्छा ‘तिष्ठति' उपरमत इत्यर्थः ॥ ३७८० ॥ अथ रात्रौ विधिमाह
अब्भासे व वसेजा, संबद्ध उवस्सगस्स वा दारे । __ आगाढे गेलण्णे, उवस्सए चिलिमिणिविभत्ते ॥ ३७८१॥ संयतीप्रतिश्रयस्य 'अभ्यासे' समीपे यदसम्बद्धमन्यगृहं तत्र वसेत् , तस्याभावे सम्बद्धेऽप्यन्यगृहे, तदभावे उपाश्रयस्य वा द्वारे । अथागाढं ग्लानकार्य भवति तत उपाश्रयेऽपि चिलिमिलिकाविभक्ते वसति ॥ ३७८१ ॥ किमर्थं पुनरुपाश्रयस्यान्तर्वसति ? इत्याह
उव्वत्तण परियत्तण, उभयविगिंचट्ठ पाणगट्ठा वा।
तकरभय भीरू अध, णमोकारट्ठा वसे तत्थ ॥ ३७८२ ॥ तस्या उद्वर्त्तनं परिवर्त्त वा कर्तुम् , उभयस्य वा-कायिकी-संज्ञालक्षणस्य विवेचनार्थम् , तृष्णा या वा रात्रौ पानकदानार्थम् , यद्वा तत्र तस्करभयं सा च संयती खभावेनैव भीरुः ततो भयरक्षणार्थम् , 'अथ' इति अथवा मरणवेलायाः प्रत्यासन्नत्वाद् नमस्कारदानार्थ वा तत्र 25 रात्रौ वसेत् ॥ ३७८२ ॥
धिइ-बलजुत्तो वि मुणी, सेजातर-सण्णि-सिझगादिजुतो ।
वसति परपञ्चयट्ठा, सलाहणहा य अवराणं ।। ३७८३ ॥ यद्यपि स मुनिः सहिष्णुत्वाद् धृति-बलयुक्तस्तथापि शय्यातरेण संज्ञिना वा-श्रावण सिज्झकेन वा-सहवासिना युतः-सहितः संयतीप्रतिश्रये वसति । तं च शय्यातरादिकमित्थं 30 भणति-न वर्तते ममैकाकिनः संयतीप्रतिश्रये रात्री वस्तुम् , अतो मम द्वितीयेन भक्ता
१रू य व ताभा० ॥ २°म् , मरण भा० कां•॥ ३ सिनगा तामा• बिना ॥ ४°ण 'सिजकेन सिसकेन वा' सह भा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org