________________
१०४४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [निम्रन्थ्युपा०प्र० सूत्रम् १ राधना भवति ।। ३७७३ ॥ कीदृशः पुनस्तां प्रतिजागर्ति? इत्युच्यते--
पियधम्मो दढधम्मो, मियवादी अप्पकोतुहल्लो य ।
अजं गिलाणियं खल, पडिजग्गति एरिसो साह ॥३७७४॥[ओ.नि.६४८,आव.नि.१३७५] प्रियः-इष्टो धर्मो यस्य स प्रियधर्मा । धमें यः दृढः-निश्चलो दृढधर्मा, राजदन्तादित्वाद् दृढशब्दस्य पूर्वनिपातः । मितं-परिमिताक्षरं वदितुं शीलमस्येति मितवादी । अल्पशब्दस्य इह अभाववचनत्वाद् अल्पम्-अविद्यमानं कौतूहलं स्त्रीरूपदर्शनादिषु यस्य सोऽल्पकौतूहलः । ईदृशः साधुरा- म्लानां प्रतिजागर्ति ॥ ३७७४ ॥
सो परिणामविहिण्णू, इंदियदारेहिँ संवरियदारो।
जं किंचि दुन्भिगंधं, सयमेव विगिचणं कुणति ॥ ३७७५ ॥ 10 'सः' वैयावृत्त्यकरः 'वर्ण-गन्धादिभिः शुभा अपि भावा भूयोऽप्यशुभा भवन्ति, अशुभा
अपि च संस्कारविशेषतो विश्रसया वा शुभा जायन्ते' इत्येवं पुद्गलानां परिणाम विधिं जानातीति परिणामविधिज्ञः । तथा इन्द्रियद्वारेभ्यः संवृतद्वारः, इह “गम्ययपः कर्माधारे" (सिद्ध०२-२-७४) इत्यनेन पञ्चमी, ततोऽयमर्थः-इन्द्रियरूपाणि द्वाराण्यधिकृत्य संवृत
द्वारः, न पुनर्बाह्यद्वाराणि । ईदृशः साधुर्यत् किश्चिदार्यिकायाः संज्ञादिकं दुरभिगन्धं तस्य 18 स्वयमेव 'विवेचनं' स्फेटनं परिष्ठापनं वा करोति ॥ ३७७५ ॥ संवृतद्वारपदस्य सफलीकरणार्थमाह
गुझंग-वदण-कक्खोरुअंतरे तह थणंतरे दहूँ ।
साहरति ततो दिडिं, न य बंधति दिहिए दिहिं ॥ ३७७६ ॥ गुह्याङ्गस्य वदनस्य कक्षाया ऊर्वोश्च यान्यन्तराणि-अवकाशास्तानि तथा स्तनान्तराणि च 20 दृष्ट्वा 'संहरति' भास्करादिव ततो दृष्टिं निवर्तयति, 'नच' नैव आर्यिकाया दृष्टौ दृष्टिं 'बध्नाति' मीलयतीत्यर्थः ॥ ३७७६ ॥ अथ 'यत् किञ्चिद् दुरभिगन्धम्' इत्यादि व्याचष्टे
उच्चारे पासवणे, खेले सिंघाणए विगिंचणया ।
उव्वत्तण परियत्तण, णंतग पिल्लेवण सरीरे ॥ ३७७७ ॥ उच्चारस्य प्रश्रवणस्य खेलस्य सिङ्घानस्य च विवेचनं करोति । उद्वर्तनं नाम-तस्या उत्ता25 नायाः पार्श्वतः करणम् , तत इतरस्यां दिशि स्थापनं परिवर्तनम् , ते अपि करोति । 'नन्तकं' वस्त्रं तथा शरीरं च यदि संज्ञया मूत्रेण वा लिप्तं ततस्तदपि निपयितव्यम् ॥ ३७७७ ॥
किरियातीतं गाउं, जं इच्छति एसणाएँ जं तत्थ ।
सद्धावणा परिणा, पडियरण कहा णमोकारो ॥ ३७७८॥ क्रियायां क्रियमाणायामपि या न प्रगुणीभवति सा क्रियातीता, तां ज्ञात्वा सा प्रष्टव्या-केन 30 भवत्याः समाधिरुत्पद्यते । ततो यद् द्रव्यमिच्छति तदेषणया शुद्ध शुद्धस्यौलामे पञ्चकहानि
यतनयाऽपि गृहीत्वा दातव्यम् । ततः सा तथा श्रद्धाप्यते यथा 'परिज्ञाम्' अनशनं प्रतिपद्यते । अनशनप्रतिपन्नायाश्च सर्वप्रयत्नेन प्रतिचरणम् । धर्मकथा च तथा कर्त्तव्या यथा सम्यगु१ स्याभावे पञ्च भा.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org