________________
भाष्यगाथाः ३७६६-७३] तृतीय उद्देशः ।
१०१३ व्यतिव्रजन्तं संयतं गृहस्थः कोऽपि ब्रूते-युष्माकं ग्लानायाः प्रतिजागरणं क्रियते ! न क्रियते ? । साधुराह-सुष्टु क्रियते । । गृही ब्रवीति-ययेवं ततः
लोलंती छग-मुत्ते, सोउं घेत्तुं दवं तु आगच्छे ।
तूरंतो तं वसहिं, णिवेयणं छायणऽजाए ॥ ३७७० ॥ एकाकिनी संयती 'छगण-मूत्रे' आत्मीय एव पुरीष-प्रश्रवणे 'लोलन्ती' विलुठन्ती अत्र ग्रामे तिष्ठति । एवं श्रुत्वा तत एव 'द्रवं' पानकं गृहीत्वा त्वरमाणः संयतीवसतिमागच्छति। ततो बहिः स्थित्वा शय्यातरीपा दार्यिकाया निवेदनं कारयति, यथा-बहिः साधुरागतोऽस्तीति । सा च शय्यातरी तस्या आर्यिकाया दुर्निवसितगात्राणां छादनं कुर्यात् । अथ सा न करोति तत आत्मनाऽपि यतनया तां छादयति ॥ ३७७० ॥ ततः स साधुस्तस्या इत्थं स्थिरीकरणं करोति
10 आसासो वीसासो, मा भाहि इति थिरीकरण तीसे ।
धुविउं चीरऽत्थुरणं, तीसेऽप्पण बाहि कप्पो य ॥ ३७७१ ॥ 'आश्वासो नाम' धीरा भव, अहं ते सर्वमपि वैयावृत्त्यं करिष्ये । 'विश्वासस्तु' त्वं मम माता भगिनी दुहिता वा अतो मा भैषीः, एवं वयोऽनुरूपमविरुद्धं वचनं ब्रवीति । इत्थं तस्याः स्थिरीकरणं कृत्वा छगण-मूत्रललितां तां धावित्वा तस्या एवौपग्रहिकाणि चीवराणि 15 तेषामभावे आत्मीयान्यपि संस्तारके आस्तृणाति तां वा परिधापयति । ततः खरण्टितचीवराणां प्रतिश्रयाद् बहिः कल्पो दातव्यः । भूमेरपि तस्या उपलेपनं कर्त्तव्यम् ॥ ३७७१ ॥ अथ प्रवेशविधि विशेषत आह
एएहि कारणेहिं, पविसंते ऊ णिसीहिया तिनि ।
ठिच्चाणं कायव्वा, अंतर दूरे पवेसे य ॥ ३७७२ ॥ 'एतैः' ग्लानत्वादिभिः कारणैः संयतीवसतौ प्रविशता तिस्रो नैषेधिक्यः कर्त्तव्याः। कथम् ? इत्याह-'स्थित्वा' प्रथमनषेधिकीकरणानन्तरं कियन्तमपि कालं प्रतीक्ष्य द्वितीया नैषेधिकी, ततो द्वितीयानन्तरं तृतीयाऽप्येवमेव कर्त्तव्या। तथा प्रथमा नैषेधिकी 'दूरे' अग्रद्वारे, द्वितीया 'अन्तरे' मध्यभागे, तृतीया 'प्रवेशे' मूलद्वारे विधातव्या ॥ ३७७२ ॥ ततःपडिहारिए पवेसो, तकजसमाणणा य जयणाए।
25 गेलण्णे चिट्ठणादी, परिहरमाणो जतो खिप्पं ॥ ३७७३ ॥ शय्यातरीभिः 'प्रतिहारिते' आर्याया ज्ञापिते सति प्रवेशः कर्तव्यः । प्रविष्टेन च तस्यविवक्षितस्य ग्लानकार्यस्य पूर्वोक्तया वक्ष्यमाणया च यतनया समापना कर्तव्या । एवं ग्लानत्वे तत्र स्थानादीनि पदानि कुर्यात् । तथा ग्लानकृत्यान्युत्सर्गतोऽशुद्धं परिहरन् करोति । अथ शुद्धं न प्राप्यते ततः “जउ" त्ति अनागाढे पञ्चकहान्या 'यतः' यतमानः करोति, "खिप्पं" ति 30 आगाढे क्षिप्रमेव करोति । अथवाऽऽत्म-परोभयसमुत्थदोषान् परिहरमाणो ग्लानकृत्यं करोति, कुतः ? इत्याह-"जतो खिप्पं" ति यत आत्मसमुत्थादिदोषान् अपरिहरतः क्षिप्रमेव संयमवि. १°रणा कि भा. का० ॥ २ °नं कार्यते । अ° भा० कां० ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org