________________
१०४२
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् १
तृतीयो राजपुत्रः संयमार्थी स गुरुभिरभिहितः - आर्य ! संयतीप्रतिश्रये निलीयख । स प्राह—– इच्छाम्यहं भगवद्वचनम्, निस्तारयत मां येन केनापि प्रकारेणास्मादुपसर्गसमुद्रात् । एवमुक्त्वा स आचार्यान् 'त्रिविधेन' मनो- वाक्- कायकर्मणा प्रणम्य निकृत्या ग्लानत्वं कृत्वा - ssर्याणामुपाश्रयं प्रविशति ॥ ३७६५ ॥
5
अंतद्भाणा असई, जइ मंसू लोय अंबिलीवीए ।
पीसित्ता देति मुहे, अपगासें ठवेंति य विरेगो ॥ ३७६६ ॥
यद्यन्तर्धानकारणमञ्जन-मन्त्रादि विद्यते ततः सोऽन्तर्हितः कृत्वा तत्रैव स्थाप्यते । अथ नास्त्यन्तर्धानकरणं ततः संयतीनेपथ्यं कारयित्वा तद्वसतिं नेतव्यः । यदि तस्य ' श्मश्रु' कूर्चं विद्यते ततो लोचः क्रियते । अम्लिनीबीजानि च पिष्ट्वा तस्य मुखे ददति, तैर्मुखमालिम्पन्ती10 त्यर्थः । अप्रकाशे च प्रदेशे संयतीवसतौ तं स्थापयन्ति । विरेकध विरेचनका रकौषधप्रयोगेण क्रियते ॥ ३७६६ ॥
संथार कुसंघाडी, अमणुने पाणए य परिसेओ ।
सण पीसण ओसह, अद्धिति खरकम्मि मा बोलं ।। ३७६७ ।।
संस्तार के स संयतः शाय्यते । मलिनां त्रुटितां च कुसङ्घाटी स प्रावरणं कार्यते । 'अम15 नोज्ञ' दुर्गन्धि पानकं तेन तस्य परिषेकः क्रियते । तथा काश्चन संयत्यस्तत्र चन्दनस्य घर्षणम्
अन्यास्तु पेषणं औषधस्य कुर्वन्ति । अपराः पुनः करतलपर्यस्तमुखा भूमिगतदृष्टयोऽधृतिं कुर्वाणास्तिष्ठन्ति, 'खरकर्मिकेषु च ' राजपुरुषेषु समागतेषु भणन्ति – मा बोलं कुरुत, एषा प्रवर्त्तिनी ग्लाना न युष्मदीयं बोलं सहते । एवमसौ तत्र संयतीवेषेण तिष्ठन् सर्वाण्यपि स्थान - निषदनादीनि पदानि कुर्यात् ॥ ३७६७ ॥ गतं 'प्रच्छादना च शैक्षे' इति द्वारम् । अथ 20 'असहिष्णोश्चतुष्कभजना' इति द्वारं बिभावयिषुराह
दोन वि स भवंती, सो वडसहू सा व होज ऊ असहू ।
दोहं पि उ असहूणं, तिगिच्छ जयणाय कायव्वा ॥ ३७६८ ॥
यस्या ग्लानसाध्व्याश्चिकित्सा क्रियते यश्च तस्याः प्रतिचरकः तौ द्वावपि सहिष्णू भवतः, एष प्रथमो भङ्गः । “सो वऽसहु" ति साध्वी सहिष्णुः 'सच' साधुरसहिष्णुरिति द्वितीयः । 25 “सा व होज्ज ऊ असहु” त्ति 'सा' साध्वी असहिष्णुः साधुः सहिष्णुः, एष तृतीयः । साध्वी साधुश्च द्वावप्यसहिष्णू इति चतुर्थः । एतेषु चतुर्षु भङ्गेषु यतनया चिकित्सा कर्त्तव्या ॥ ३७६८॥ तत्र प्रथमभङ्गं तावद् भावयति
सोऊण ऊ गिलाणं, पंथे गामे व भिक्खवेलाए ।
जइ तुरियं नागच्छइ, लग्गइ गुरुए चउम्मासे || ३७६९ ॥
30
श्रुत्वा ग्लानां संयतीं पथि वा परिभ्रमन् ग्रामे वा तिष्ठन् भिक्षावेलायां वा पर्यटन् यदि त्वरितं ग्लानासमीपं नागच्छति ततश्चतुरो मासान् गुरुकान् 'लगति' प्राप्नोति, अतो ग्लानां श्रुत्वा निर्जरामभिलषता सर्वेणाप्यक्षेपेणैव तस्याः समीपं गन्तव्यम् || ३७६९ ॥
कथं पुनस्तस्याः श्रवणं भवति ? उच्यते - यत्र ग्रामे ग्लाना विद्यते तस्य बहिर दूरसमीपे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org