________________
भाष्यगाथाः ३७५६-६५] तृतीय उद्देशः ।
१०४१ सन्तोऽनाथाः' इति परिभाव्य राज्यलक्षणोपेतं कुमार प्रयत्नेन गवेषितवन्तः, परं न विद्यते कोऽपि लक्षणयुक्तः कुमारः । ततः कथितं 'प्रत्य नीकैः' तचनिकादिभिः, यथा-येषां मध्येऽस्यैव नृपतेः पुत्राः प्रव्रजिताः सन्ति ते साधवो विहरमाणा इहैवोद्याने सम्प्राप्ताः । ततस्तेऽमात्यादयः सम्यग् ज्ञात्वा छत्र-चामर-खड्गादिकं राजाह वस्तु गृहीत्वा द्रुतद्रुतम् 'आधावन्ति' साधूनां समीपमागच्छन्ति ॥ ३७६०॥ अथ प्रत्यनीकाः केन कारणेन कथयन्ति ? इत्युच्यते
अइ सिंजणम्मि वन्नो, य आयति इड्डिमंतपूया य ।
रायसुयदिक्खिएणं, तित्थ विवड्डी य लद्धी य ॥ ३७६१ ॥ अमुना राजसुतेन दीक्षितेन 'सिं' अमीषां श्रमणानाम् 'अति' अतीव 'जने' लोके 'वर्णः' यशःप्रवादो विजृम्भते, यथा-अहो ! अमीषामेव धर्मः प्रतपति यत्रेदृशाः प्रव्रजन्ति । 'आयतिश्च' सन्ततिरमीषामनेनाव्यवच्छिन्ना भविष्यति । ऋद्धिमन्तश्च-श्रेष्ठ्यादय एतत्प्रभावेणामीषां 10 पूजां कुर्वन्ति । तथा 'राजसुतोऽत्र प्रवजितः' इति कृत्वाऽन्येऽपि बहब इभ्यपुत्रादयः प्रव्रजन्तीति तीर्थवृद्धिः । लब्धिश्चाहार-वस्त्रादीनां प्रचुरा भवति । उत्पव्रजितेन पुनरमुना वर्णादयो न भविष्यन्तीति बुद्ध्या प्रत्यनीकाः कथयन्ति ॥ ३७६१ ॥ ततस्तानमात्यादीनुवाजनार्थमागच्छतः श्रुत्वा ते राजपुत्राः किं कुर्वन्ति ? इत्याहदट्टण य राइडिं, परीसहपराइतो तहिं कोई।।
15 आपुच्छइ आयरिए, सम्मत्ते अप्पमाओ हु ॥ ३७६२ ।। तां राजसमृद्धिमागच्छन्तीं दृष्ट्वा तत्र कोऽपि राजपुत्रः परीषहपराजितः सन्नाचार्यानाटच्छते-भगवन् ! अशक्तोऽहं प्रव्रज्यामनुपालयितुम् । तत आचार्या भणन्ति-सौम्य ! सम्यक्त्वे भवता 'हुः' निश्चितमप्रमादः कर्त्तव्यः ॥ ३७६२ ॥
नाऊण य माणुस्सं, सुदुल्लभं जीवियं च निस्सारं ।।
संघस्स चेतियाण य, वच्छल्लत्तं करेजाहि ॥ ३७६३ ॥ ज्ञात्वा 'मानुष्यं' मनुष्यभवं सुदुर्लभं जीवितं च निस्सारं मत्वा सङ्घस्य चैत्यानां च 'वत्सलत्वं' भक्तिं कुर्या इति ।। ३७६३ ॥ द्वितीयः पुनराह
किं काहिंति ममेते, पडलग्गतणं व मे जढा इड्डी ।
को वाऽनिट्टफलेसं, विभवेसु चलेसु रज्जेजा ॥ ३७६४ ॥ 25 किं करिष्यन्ति मम 'एते' अमात्यादयः ? पटलमतृणमिव मया राज्यऋद्धिः “जढा" परित्यक्ता, अपि च राज्यादिविभवानां भुक्तानां ध्रुवं नरकपातः फलम् , चलाश्चामी सन्ध्याभ्ररागवत् , अतः को वाऽनिष्टफलेषु चलेषु च विभवेषु 'रज्येत' रागमनुबध्नीयात् ? । एवमुक्त्वा प्रकट एव प्रदेशे स्थितः सर्वानुपसर्गानभिभूय स संयममनुपालयति ॥ ३७६४ ॥ यस्तु तृतीयः स किं करोति ? इत्याह
तईओ संजमअट्ठी, आयरिए पणमिऊण तिविहेणं ।
गेलनं नियडीए, अजाण उवस्सगमतीति ॥ ३७६५ ॥ १इत्युच्यते भा० ॥ २ बितिओ तामा० चूर्णौ च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org