________________
१०४० सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [निम्रन्थ्युपा०प्र० सूत्रम् १
पडिणीय मेच्छ मालव, गय गोणा महिस तेणगाई वा ।
आसन्ने उपसग्गे, कप्पड़ गमणं गणहरस्स ॥३७५६ ॥ प्रत्यनीक-म्लेच्छ-मालवस्तेन-गज-गो-महिष-स्तेनकादयो वा संयतीनामुपसर्ग कर्तुमारब्धाः, यद्वा न तावत् ते उपसर्गयन्ति परं तेषामासन्न उपसर्गो वर्त्तते तत्क्षणादेव भावीत्यर्थः, ततः 5 कल्पते गणधरस्यान्यस्य वा समर्थस्य तन्निवारणार्थ गमनम् ॥ ३७५६ ॥ गतं गणधरद्वारम् । अथ महर्द्धिकद्वारमाह
रायाऽमच्चे सेट्ठी, पुरोहिए सस्थवाह पुत्ते य ।
गामउडे रटुउडे, जे य गणहरे महिड्डीए ॥ ३७५७ ॥ 'राजा' पृथिवीपतिः । 'अमात्यः' मन्त्री । अष्टादशानां प्रकृतीनां महत्तरः श्रेष्ठी । पौर-जन10 पदयुक्तस्य राज्ञो होमादिनाऽशिवायुपद्रवप्रशमनः पुरोहितः । यस्तु क्रयाणकजातं गृहीत्वा लाभार्थमन्यदेशं व्रजन् सार्थ वाहयति-योग-क्षेमचिन्तया पालयति स सार्थवाहः । पुत्रशब्दः प्रत्येकमभिसम्बध्यते, यथा-राजा राजपुत्र इत्यादि । तथा 'ग्रामकूटः' ग्राममहत्तरः, 'राजकूट।' राष्ट्रमहत्तरः, एते प्रव्रजिता इह गृह्यन्ते । यश्च गणधरो राजादिबहुमतो विद्यातिशयसम्पन्नो
वा, एते सर्वेऽपि महर्द्धिका उच्यन्ते ॥ ३७५७ ॥ 15 एतेषां संयतीवसतिं गच्छताममी गुणा भवन्ति
अजाण तेयजणणं, दुजण संचमकारया य गोरवया ।
तम्हा समणुण्णायं, गणहर गमणं महिड्डीए ॥ ३७५८॥ आर्याणां 'तेजोजननं' माहात्म्योत्पादनम् । दुर्जनानां च 'सचमत्कारता' साशङ्कता भवति, न किञ्चित् प्रत्यनीकत्वं कुर्वन्तीत्यर्थः । लोके च आर्याणां गौरवमुपजायते । तस्माद् गणधरस्य 20 'महर्द्धिकस्य च' राजप्रव्रजितादेर्गमनमार्यिकाप्रतिश्रये समनुज्ञातम् ॥ ३७५८ ॥ ताश्चार्यिकास्तान् राजादिदीक्षितान् दृष्ट्वा इत्थं चिन्तयन्ति
संतविभवा जइ तवं, करेंति अवइज्झिऊण इड्डीओ।
सीयंतथिरीकरणं, तित्थविवड्डी य वण्णो य ॥ ३७५९ ॥ सद्विभवा अप्यमी यदि 'ऋद्धीः' राज्यादिसम्पदः 'अपोज्झ्य' परित्यज्य तपः कुर्वन्ति 28 ततो वयमसती सम्पदं प्रार्थयमानाः किमेवं प्रमादमनास्तिष्ठामः ? इत्येवं सीदन्तीनामार्यिकाणां स्थिरीकरणं कृतं भवति । स्थिरीकरणे च क्रियमाणे तीर्थस्य विवृद्धिः । तीर्थवृद्धौ च प्रवचनस्य 'वर्णः' यशःप्रवादः प्रभावितो भवति ।। ३७५९ ॥ गतं महर्द्धिकद्वारम् । अथ 'प्रच्छादना च शैक्षे' इति द्वारमाह
वीसुभिओ य राया, लक्खणजुत्तो न विज्जती कुमरो ।
पडिणीएहि व कहिए, आहावंती दवदवस्स ॥ ३७६० ॥ - कस्यापि नृपतेस्त्रयः पुत्राः सम्यग्दर्शनलब्धबुद्धयो दीक्षा कक्षीकृतवन्तः । कालान्तरेण च स राजा 'विश्वम्भूतः' शरीरात् पृथग्भूतः, कालगत इत्यर्थः । ततोऽमात्यादयः 'वयमराजकाः १ गोणो म° ताभा० ॥ २ सच्चंकार ताभा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org