SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 15 भाष्यगाथाः ३७४७-५५] तृतीय उद्देशः । १०३९ अन्नाए आभोगं, नाऍ ससदं करेंति सज्झायं ।। अच्चुव्याया व सुवे, अच्छंति व अन्नहिं दिवसं ॥ ३७५१ ॥ यदि तत्र जनेनाज्ञाताः स्थितास्ततो रात्रौ 'आभोगम्' उपयोगं कुर्वते, तृष्णीका आसते इत्यर्थः । अथ ज्ञातास्ततः 'सशब्दं' महता शब्देन युक्तं स्वाध्यायं कुर्वन्ति । अथातीवोद्वाताः-परिश्रान्तास्ततः स्वपन्ति । कारणतश्चैकं द्वौ त्रीन् वा दिवसान् तत्रैव यदि स्थानवः । ततो दिवसम् 'अन्यत्र' उद्यानादिषु स्थित्वा रात्रौ तत्र वसन्ति । कारणाभावे तु तत्रैकरात्रमुषित्वा प्रभाते व्रजन्ति ॥ ३७५१ ॥ समणी समण पविढे, निसंत उल्लावकारणे गुरुगा। पयला निद्द तुबट्टे, अच्छीमलणे गिही मूलं ॥ ३७५२ ॥ श्रमणीजने श्रमणजने च कायिकां कृत्वा प्रविष्टे सति यद्येको वाऽनेके वा एकया वाऽने-10 काभिर्वा संयतीभिः समं 'निशान्ते' निःसंचरवेलायामुल्लापम् 'अकारणे' आगाढकारणाभावे कुर्वन्ति ततश्चतुर्गुरुकम् । तथाऽन्यत्रोद्यानादिषु श्वापद-स्तेनादिभयाद् दिवाऽपि तत्रैव तिष्ठन्तो यदि प्रचलायन्ते निद्रायन्ते त्वग्वर्त्तयन्ति वा अक्षिणी वा मलयन्ति तत्र चतुर्गुरुकम् । अथ गृही प्रचलादि विदधानं तं दृष्ट्वा शङ्कां करोति-किमेष खाध्यायजागरेण खिन्नः प्रचलायते? उत सागारिकजागरेण ? इत्यादि ततश्चतुर्गुरु । निःशङ्किते मूलम् ।। ३७५२ ॥ उच्चारं पासवणं, व अन्नहिं मत्तएसु व जयंति । . अहिट्ठ पविट्ठा वा, अदिट्ठ णितेधरा भयिता ॥ ३७५३ ॥ उच्चारं प्रश्रवणं वा संयतीकायिकाभूमिं विमुच्यान्यत्र कुर्वन्ति, मात्रकेषु वा कृत्वा बहिः परिठापनायां यतन्ते । तत्र च यदि गृहिभिरदृष्टाः प्रविष्टास्ततोऽदृष्टा एव निर्गच्छन्ति, अथ दृष्टाः प्रविष्टास्ततः 'भक्ताः' विकल्पिताः, दृष्टा अदृष्टा वा निर्गच्छन्तीति भावः॥ ३७५३॥ 20 तत्थऽनत्थ व दिवसं, अच्छंता परिहरंति निदाई। जयणाए व सुर्विती, उभयं पि य मग्गए वसहिं ॥ ३७५४ ॥ तत्र रजन्यामुषित्वा दिवसतः 'तत्र वा' संयतीवसतौ 'अन्यत्र वा' उद्यानादिषु तिष्ठन्तो निद्रा-प्रचलादिकं परिहरन्ति, यवनिकान्तरिता वा यतनया खपन्ति यथा सागारिको न पश्यति । यदि ते तत्र कियन्तमपि कालं स्थातुकामास्ततः 'उभयमपि' साधवः साध्व्यश्चान्यां वसतिं मार्ग-25 यन्ति । लब्धायां च तत्र साधवस्तिष्ठन्ति ॥३७५४ ॥ गतं प्राघुणकद्वारम् । अथ गणधरद्वारमाह अहिणा विसूइका वा, सहसा डाहो व होज सासो वा। जति आगाढं अजाण होइ गमणं गणहरस्स ॥ ३७५५ ॥ 'अहिना' सर्पण काचिदार्यिका दष्टा, अतिमात्रे वा भुक्ते विशूचिका कस्याश्चिदजनिष्ट, सहसा पित्तेनामिना वा 'दाहः' दाहज्वरो वाऽभवत् , श्वासो वा कस्याश्चिदकस्मादजनि, एव-30 मादिकं यदि आगाढं कार्यमार्याणां भवति ततो दिवा रात्रौ वा गणधरस्य गमनमनुज्ञातम् ॥ ३७५५ ॥ अथवा१°ना । यतस्तत्र यदि भा० का० विना ॥२ एतचिह्नगतः पाठः भा० कां० एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy