SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०३८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्ध्युपा०प्र० सूत्रम् १ गृहस्य ‘ऋजुकं' सम्मुखं स्थितः सन् न पृच्छेद् न वा दर्शयेत् । कुतः ? इत्याह - यतस्तत्रैवं पृच्छ्यमाने दर्श्यमाने वा प्रत्यपाया बहवो भवन्ति ॥ ३७४६ ॥ तानेवाहतेहि' अगणिणा वा, जीवियववरोवणं व पडिणीए । खेरए खरिया सुण्हा, नङ्के वट्टक्खुरे संका || ३७४७ ॥ बाह्रादिकं प्रसार्य साधुना यद् गृहं पृष्टम् संयत्या वा दर्शितम् ततः स्तेनैः किञ्चिदपहृतं भवेत्, अग्निना वा तद् गृहं दग्धम्, प्रत्यनीकेन वा तस्मिन् गृहे कस्यापि जीवितव्यपरोपणं कृतम्, (ग्रन्थाग्रम् - २५४२० ) व्यक्षरको वा व्यक्षरिका वा केनचिदपहृता, खुषा वा केनचिद् धूर्तेन सह पलायिता, 'वृत्तखुरो वा' प्रधानस्तुरङ्गमो नष्टो भवेत् ततः साधु-साध्वीविषया शङ्का भवेत् — नूनमेतैरेवापहृतम् दग्धमित्यादि; ततो नाविधिना पृच्छेत् न वा दर्शयेत् 10॥ ३७४७ ॥ तत्रं चाssसीनास्ते साधवो न हसन्ति न वा कन्दर्पं कुर्वन्ति, किन्तु — सेजायराण धम्मं, कहिंति अजाण देंति अणुसट्ठि । - धम्मम्मिय कहियम्मि य, सव्वे संवेगमावन्ना ॥ ३७४८ ॥ शय्यातराणां धर्मं कथयन्ति, आर्याणां चोद्यतानां स्थिरीकरणार्थं सीदन्तीनां पुनरुद्यमनार्थमनुशिष्टिं प्रयच्छन्ति । धर्मे च कथिते 'सर्वे' श्राद्धाः संयत्यश्च संवेगमापन्ना भवन्ति, आत्मनश्च 15 मिर्जरा भवति ॥ ३७४८ || प्राघुणकद्वारमेव प्रकारान्तरेण व्याचष्टे 5 अन्नो वि अ आएसो, पाहुणग अभासिया उ तेणभए । चिलिमिणिअंतरिया खलु, चाउस्साले वसेजा णं ॥ ३७४९ ॥ अयम् 'अन्यः' अपर आदेशः प्राघुणकद्वारे समस्ति - ते प्राघुणकाः 'अभाषिकाः' द्रविडादिदेशोद्भवाः, ततस्तत्र तेषामुपाश्रयो दुर्लभः, अतस्तदर्थं संयत्यो वसतिं मार्गयन्ति । यदि ताभि20 रपि गवेषयन्तीभिर्न लब्धा ततो वृक्षमूलादिषु बहिर्वसन्ति । अथ बहिः स्तेनभयं ततो यत्रार्याः स्थिताः सन्ति तत् चतुःशालं भवेत्, तत्रान्यस्यां शालायां साधवश्चिलिमिलिकया अन्तरिता वसेयुः ॥ ३७४९ ॥ चतुःशालस्याभावे विधिमाह -- रस्स असती, कडओ पुत्ती व अंतरे थेरा । तेसंतरिया खुड्डा, समणीण वि मग्गणा एवं ।। ३७५० ॥ 25 अन्यस्या वसतेरभावे संयताः संयत्यश्चैकस्मिन् गृहे वसन्तैः कुंड्यान्तरिते वसन्ति । कुड्यान्तरस्याभावे कटकोऽपान्तराले दीयते । कटकस्याभावे पोतं - वस्त्रं तन्मयी चिलिमिलिका । अथ - चिलिमिलिकायाः स्तेनभयं ततो यस्मिन् पार्श्वे संयत्यस्ततः प्रथमं स्थविराः, तैरन्तरिताः क्षुल्लकाः, ततो मध्यमाः, ततस्तरुणा इति । एवं श्रमणीनामपि मार्गणा कर्त्तव्या, तद्यथा - स्थविरसाधूनामासन्ने क्षुल्लिकाः, ततः स्थविराः, ततो मध्यमाः, ततो दृढकुड्यासन्ने 30 तरुण्यः स्थाप्यन्ते ॥ ३७५० ॥ तत्रस्थितानां विधिमाह - १° हिंगणि ताभा० ॥ २ खर- पे (बे) खरिया ताभा० 'म् - ५०० मो० ले० ॥ ४° तरियस्सऽसती भा० ताभा० 'कुड्यान्तरस्यासति' कुड्यान्तरस्याभावे त० ॥ ६ वर्त्तते ॥ ७ एतदन्तर्गतः पाठः भा० एव वर्त्तते ॥ For Private & Personal Use Only Jain Education International विना ॥ ३°म् - ९५०० ताटी० । चूर्णे विशेषचूर्णे च ॥ ५°न्तः एतदन्तर्गतः पाठः भा० कां० एव www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy