________________
भाष्यगाथाः ३७३७-४६)
तृतीय उद्देशः ।
१०३७
कालगय ति य सोचा, सरीरमहिमाइ गच्छेजा ॥ ३७४२ ॥ इह संलेखितम् अपिशव्दात् संलेख्यमानं वस्तु त्रिधा-आहारः शरीरमुपकरणं च, यद्वोपधिः शरीरं कषायाश्चेति । व्युस्रष्टव्यमप्येवमेव त्रिविधम् , अनशनप्रतिपत्तिकाले एतदेव त्रयं व्युत्सर्जनीयमिति भावः । एवं व्युत्सृष्टमपि त्रिविधम् । एषु त्रिष्वपि तस्याः स्थिरीकरणार्थ सूरिणा गन्तव्यम् । यावत् 'कालगता सा संयती' इति वार्ता श्रुता, तां च श्रुत्वा तस्याः शरीरमहि । मार्थ गणधरः खयमेव गच्छेत् ।। ३७४२ ॥
जाहे वि य कालगया, ताहे वि य दुन्नि तिन्नि वा दिवसे ।
गच्छेञ्ज संजईणं, अणुसहि गणहरो दाउं ॥ ३७४३ ॥ यदापि च प्रवर्तिनीप्रभृतिका महानिनादसंयती कालगता भवति तदा द्वौ त्रीन् वा दिव. सान् संयतीनामनुशिष्टिं प्रदातुं गणधरो गच्छेत् ॥ ३७४३ ॥
10 गतं “गम्यते कारणजाते" (गा० ३७२१) इति मूलद्वारम् । अथ प्राघुणकद्वारमाह
अप्पविति अप्पतितिया, पाहुणया आगया सउवचारा ।
सिजायर मामाए, पडिकुट्ठद्देसिए पुच्छा ॥ ३७४४ ॥ प्राघुणकाः साधव आत्मद्वितीया आत्मतृतीया वा तत्रागताः, तैश्च तत्र श्रुतम् , यथाअत्र संयत्यस्तिष्ठन्ति; ततस्ते तासां वसतिं सोपचाराः प्रविशन्ति । सोपचारा नाम-त्रिषु स्थानेषु ।। प्रयुक्तनैषेधिकीशब्दाः, यद्वा संयतीभिर्येषां वक्ष्यमाण उपचारः प्रयुक्तस्ते सोपचारा उच्यन्ते । तेषु समागतेषु प्रवर्तिनी यदि स्थविरा तत आत्मद्वितीया निर्गच्छति, अथ तरुणी तत आत्मतृतीया । या च तत्र स्थविरा सा पुरतस्तिष्ठति । ततः साधवः शय्यातरकुलं मामाककुलं प्रतिकुष्टकुलानि च-रजकादिसम्बन्धीनि औद्देशिकं च येषु कुलेषु क्रियते तानि प्रवर्तिन्याः समीपे पृच्छन्ति ॥ ३७४४ ॥ अथोपचारं व्याख्याति
20 आसंदग कट्ठमओ, भिसिया वा पीढगं व कट्ठमयं ।
तक्खणलंभे असई, पडिहारिग पेहऽभोगऽण्णे ॥ ३७४५ ॥ यदि साधुषु समागतेषु तत्क्षणादेव. काष्ठमय आसन्दकोऽशुषिरादिगुणोपेतः प्राप्यते, वृषिका वा काष्ठमयं वा पीठकं लभ्यते ततस्तदानीमेव तद् ग्रहीतव्यम् । अथ तत्क्षणादेवासन्दकादि न लभ्यते ततोऽनागतं प्रातिहारिकं गृहीत्वा स्थापयन्ति । "पेह" ति तच्चोभय-25 सन्ध्यं प्रत्युपेक्षन्ते । “भोगऽन्ने' त्ति अकारप्रश्लेषादन्यो नाम--संयतीजनस्तस्य प्रातिहारिकस्य भोगं न करोति । ततस्ते तत्रोपविष्टाः संयतीनां निराबाधादिवा" पृष्ट्वा शय्यातरकुलादीनि पृच्छन्ति ॥ ३७४५ ॥ अथ केन विधिना ते पृच्छन्ति ? केन वा विधिना तास्तेषां दर्शयन्ति ? इत्युच्यते
बाहाइ अंगुलीइ व, लट्ठीइ व उज्जुअं ठिओ संतो।
न पुच्छेज न दाएजा, पञ्चावाया भवे तत्थ ॥३७४६ ॥ [आ.नि.४३९] शय्यातरादिकुलं पृच्छन् दर्शयन् वा 'बाहया' बाहुं प्रसार्य, एवमङ्गुल्या वा यष्ट्या वा १°ह संलेखनायां संलेख्यं वस्तु भा० ॥ २ ज संजतीणं, अणुसद्धि वा भवे तामा० ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org