________________
१०५२
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [चर्मप्रकृते सूत्रम् ४ णिल्लोमे तसपाणा, संकुयमाणे य करणं वा ॥ ३८१० ॥ सलोमनि चर्मणि संसक्तानां कुन्थुप्रभृतीनां त्रसप्राणिनां विराधना भवति । तच्चातिरिक्तोपकरणत्वादधिकरणं भवति । निर्लोमन्यपि चर्मणि परिभुज्यमाने त्रसप्राणिनो विराध्यन्ते । सङ्कुचति च तस्मिन् 'करणं' पादकर्म संयती कुर्यात् ॥ ३८१० ॥
__ अविदिण्णोवधि पाणा, पडिलेहा वि य ण सुज्झति सलोमे ।
वासासु य संसञ्जति, पतावमपतावणे दोसा ॥ ३८११॥ तीर्थकरैः अवितीर्णः-अदत्तोऽयं सलोमचर्मलक्षण उपधिः । शुषिरतया च तत्र रोमान्तरेषु प्राणिनः सम्मूर्च्छन्ति, प्रत्युपेक्षणाऽपि च न शुध्यति । वर्षासु च कुन्थु-पनकादिभिस्तत्
चर्म संसज्यते । यदि संसजनभयात् प्रतापयति ततोऽमिविराधना, अथ न प्रतापयति ततस्त्र10सप्राणिनः संसजन्ति, एवमुभयथाऽपि दोषा भवन्ति ॥ ३८११ ॥
आगंतु तदुभूया, सत्ताऽझुसिरे वि गिहितुं दुक्खं ।
अह उज्झति तो मरणं, सलोम-णिल्लोमचम्मेयं ॥ ३८१२ ॥ 'आगन्तुकास्तदुद्भूताश्च' कुन्थु-पनकादयः सत्त्वा अशुषिरेऽपि ग्रहीतुं दुःखेन शक्यन्ते किं पुनः शुषिरे सलोमचर्मणि? । ततो यत् तेषां भूयोभूयः सङ्घट्यमानानां परितापनं तन्नि15 पन्नं प्रायश्चित्तम् । अथ तदुद्भवान् जन्तूनुज्झति ततस्तेषां मरणं भवेत् । एतत् सलोम चर्माश्रित्योक्तम् । अथ सलोम-निर्लोम्नोरुभयोरपि दोषा उच्यन्ते ॥ ३८१२ ॥
भारो भय परितावण, मारण अहिकरणमेव अविदिण्णे ।
तित्थकर-गणहरेहि, सतिकरणं भुत्तभोगीणं ॥ ३८१३ ॥ सलोना निर्लोम्ना वा चर्मणा मार्गे गच्छन्तीनां भारो भयं चोत्पद्यते । कुन्थु-पनकादि20 जीवानां परितापनं मारणं वा भवति । अथैतद्दोषभयात् परित्यजति ततोऽसंयतैर्गृहीतेऽधिकर
णम् । तीर्थकर-गणधरैश्च 'अवितीर्णः' अदत्तोऽयमुपधिः । सलोमनि च परिभुज्यमाने स्मृतिकरणं भुक्तभोगिनीनाम् , इतरासां कौतुकमुपजायते ॥ ३८१३ ॥ कथम् ? इत्याह
जइ ता अचेतणम्मि, अयिणे फरिसो उ एरिसो होति ।।
किमया सचेतणम्मि, पुरिसे फैरिसो उ गमणादी ॥ ३८१४ ॥ 25 यदि तावदचेतने 'अजिने' चर्मणि ईदृशः स्पर्शो भवति ततः किं पुनः सचेतनस्य पुरु
षस्य स्पर्शो भवति ? । एवं विचिन्त्य काचिदार्यिका ‘गमनम्' अवधावनं कुर्यात् , आदिशब्दाद् वैहायसमरणं वा प्रतिपंद्यते ॥ ३८१४ ॥ द्वितीयपदमाह
बिइयपय कारणम्मि, चम्मुव्वलणं तु होति णिल्लोमं ।
आगाढ कारणम्मि, चम्म सलोमं पि जतणाए ॥ ३८१५ ॥ 30 द्वितीयपदे कारणे चर्मापि गृह्णीयात् । कथम् ? इत्याह-'उद्वलनम्' अभ्यङ्गनं कस्याश्चिदार्यिकायाः कर्त्तव्यं तदर्थ निर्लोम चर्म गृह्यते । अथागाढं कारणं ततः सलोमचर्मणोऽपि
१ण मन्तव्यम् । नि भा० ॥ २ श्च सत्त्वाः शुषिरेऽपि ग्रहीतुं दुःखेन शक्यन्ते ततो यत् भा० ॥ ३ फासो कां० ॥ ४°पद्येत भा० कां० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org