SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३७२६-३६] तृतीय उद्देशः । १०३५ संयतीवसतौ गणधरस्यान्यस्य वा तथाविधोपशमनालव्धिसम्पन्नस्य गमनं प्रशस्तं भवति ॥३७३०॥ गणधरद्वारमाह जइ कालगया गणिणी, नस्थि उ अन्ना उ गणहरसमत्था । एतेण कारणेणं, गणचिंताए वि गच्छेजा ॥ ३७३१॥ यदि 'गणिनी' प्रवर्तिनी कालगता, नास्ति चान्या संयती गणभरोद्वहनसमर्था, अत एतेन 5 कारणेन गणचिन्ताकरणार्थमपि गच्छेत् ॥ ३७३१ ॥ अथानात्मवशाद्वारमाह अजं जक्खाइटुं, [व] खित्तचित्तं व दित्तचित्तं वा । उम्मायं पत्तं वा, काउं गच्छेज्ज अप्पज्झं ॥ ३७३२ ॥ यक्षेण आविष्टा-गृहीता यक्षाविष्टा । अपमाननया क्षिप्तं-नष्टं चित्तं यस्याः सा क्षिप्तचित्ता । या तु हर्षातिरेकेणापहृतचित्ता सा दीप्तचित्ता भण्यते । या तु मोहनीयकर्मोदयेन चित्तशून्य-10 तामुपगता सा उन्मादप्राप्ता । ईदृशामायाँ विज्ञायाचार्यों मन्त्रेण वा तन्त्रेण वा "अप्पज्झं" ति 'आत्मवशां' खस्थचित्तां कर्तुं संयतीवसतिं गच्छेत् ॥ ३७३२ ॥ अनिद्वारमाह जइ अगणिणा उ वसही, दड्डा डज्झइ व डज्झिहिति व त्ति । नाऊण व सोऊण व, उवघेत्तुं जे व जाएजा ॥ ३७३३ ॥ यद्यमिना संयतीवसतिर्दग्धा, दह्यते वा सम्प्रतिकाले, अथवा प्रत्यासन्नाग्निप्रदीपनदर्शनेन 15 धक्ष्यते इति ज्ञात्वा वा स्वयं 'श्रुत्वा वा' परमुखेनाकर्ण्य तां वसतिम् 'उपग्रहीतुं' संस्थापयितुं निर्वापयितुं वा “जे" इति पादपूरणे संयतीवसतिं 'यायात्' गच्छेत् ॥ ३७३३ ॥ अथाप्कायद्वारमाह नेइपूरेण व वसही, वुज्झइ बूढा व वुज्झिहिति व त्ति । उदगभरियं व सोचा, उववेत्तुं तं तु वच्चेजा ॥ ३७३४ ॥ नदीपूरेण प्रसरता वसतिः साम्प्रतम् 'उह्यते' नीयते, 'व्यूढा वा' नीता, 'वक्ष्यते वा' नेष्यते, उदकेन वा वसतिर्भूता, एवं श्रुत्वा 'तां' वसतिम् ‘उपग्रहीतुम्' उल्लिञ्चनादिकं कर्तुं व्रजेत्॥३७३४॥ विचारद्वारमाह__ घोडेहि व धुत्तेहि व, अहवा वि जतीवियारभूमीए । जयणाए व करेउं, संठवणाए व बच्चेजा ॥ ३७३५ ॥ घोडाः-चट्टाः धूर्ताः-द्यूतकारादयः, तैर्वसत्याः पुरोहडे गच्छन्त्यस्ता उपसर्म्यन्ते ततस्तेषां सानुनयनिवारणार्थ गच्छेत् । अथवा यतीनां विचारभूमौ ताः समागच्छन्ति तन्निवारणार्थ गच्छति । अथवा यतनया तासां कायिकाभूमि विचारभूमि वा कत्तुं पूर्वकृताया वा संस्थापनानिमितं व्रजेत् ।। ३७३५ ॥ पुत्रद्वारमाह पुत्तो वा भाया वा, भगिणी वा होज ताण कालगया। अजाएँ दुक्खियाए, अणुसट्टीए वि गच्छेजा ॥ ३७३६ ॥ पुत्रो वा भ्राता वा भगिनी वा तासां कालगता भवेत् ततो या तत्रार्यिका 'दुःखिता' शोकसा१ नदिपूरएण वसही तामा० ॥ 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy