________________
१०३४
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् १ यत् पुनरपूर्व उपधिरुत्पाद्य तासां दीयते तद् दानम् । अथवा भाजनं प्रवर्त्तिन्या अभावे शेषसंयतीनां विभज्य समर्पणम् , यत्तु प्रवर्त्तिन्या हस्ते समर्प्यते तद् दानम् ॥ ३७२५ ॥ अथ सङ्घमाघुणद्वारमाह
ओहाणाभिमुहीणं, थिरकरणं काउ अज्जियाणं तु । .. - गच्छेज्जा पाहुणओ, संघ-कुलथेर-गणथेरो ॥३७२६ ॥ अवधावनाभिमुखीनां परीषहपराजितानामार्यिकाणां स्थिरीकरणं कर्तुं प्राघुणको गच्छेत् । कः पुनः प्राघुणकः ? इत्याह-सङ्घस्थविरः कुलस्थविरो गणस्थविरो वा, उपलक्षणमिदम् , तेनान्योऽपि यः स्थिरीकरणलब्धिसम्पन्नः स गच्छति ॥ ३७२६ ॥ अथ शैक्षद्वारमाह
अन्नत्थ अप्पसत्था, होज पसत्था य अजिगोवसए।
एएण कारणेणं, गच्छेन्ज उवट्ठवेउं जे ॥ ३७२७ ॥ अन्यत्र विधीयमाना उपस्थापना क्षारा-ऽङ्गार-कचवराद्यप्रशस्तद्रव्ययुक्तवादप्रशस्ता भवेत् , आर्यिकोपाश्रये तु प्रशस्ता, एतेन कारणेन शैक्षमुपस्थापयितुं "जे" इति पादपूरणे आर्यिकावसतिं गच्छेत् ॥ ३७२७ ॥ स्थापनाद्वारमाह- .
ठवणकुलाइ ठवेउं, तासिं ठवियाणि वा निवेएउं ।
परिहरिउं ठवियाणिं, ठवणाऽऽदियणं व वोत्तुं जे ॥ ३७२८॥ ... दानश्राद्धादीनि स्थापनाकुलानि तासां समक्षं स्थापयितुम् , यद्वा तानि खवसतौ स्थापितानि
परं तासां 'निवेदयितुम्' 'अमुकममुकं च कुलं स्थापितम्' इत्येवं ज्ञापयितुम् , इदानी वा तानि . कुलानि स्थापितानि ततः 'परिहत्तुं' 'न निर्वेष्टव्यानि' । इत्येवं निवारयितुम् , येषु जन्मसूतक
मृतसूतकादियुक्तेषु कुलेषु पूर्वमित्वरस्थापना · कृता तेषु विवक्षितावधिपरिपूर्त्यनन्तरं भूयोऽपि 20 'आदानं' ग्रहणं कुरुतेत्यनुज्ञावचनं वक्तुं गन्तव्यम् ॥ ३७२८॥ अथोद्देशा-ऽनुज्ञाद्वारद्वयमाह
वसहीऍ असज्झाए, गोरव भय सद्ध मंगले चेव ।
उद्देसादी काउं, वादेउं वा वि गच्छेजा ॥ ३७२९ ॥ वसतावखाध्यायिके जाते संयतीवसतिमुद्देशमनुज्ञा वा कर्तुं गच्छेत् । अथवा यद्याचार्यः वयं तासामुद्देशादिकं करोति ततस्ता आचार्य विषयं यद गौरवं यच्च तदीयं भयं ताभ्यां 25 शीघ्रं तदङ्ग-श्रुतस्कन्धादिकमधीयते, आचार्येण वा स्वयमुद्दिष्टे तासां महती श्रद्धोपजायते, प्रशस्तद्रव्यादिगुणयुक्तत्वाच्च तत्रोद्देशादौ विधीयमाने मङ्गलं भवेत् , एतैः कारणैरुद्देशादिकं कर्तुं तत्र गच्छेत् । प्रवर्त्तिन्यां वा कालगतायामन्या काचित् तासां वाचनादात्री न विद्यते ततो गणधरो वाचयितुं गच्छेत् ॥ ३७२९ ॥ भण्डनद्वारमाह. उप्पन्ने अहिगरणे, विओसवेउं तहिं पसत्थं तु ।
अच्छेति खउरियाओ, संजमसारं ठवेउं जे ॥ ३७३० ॥ .. अधिकरणे उत्पन्ने सति ताः संयमस्य सारं-सर्ववभूतमुपशमं पार्श्वे स्थापयित्वा “जे" इति प्राग्वत् “खउरियाओ" कलुषितचेतसः परस्परमनालपन्त्यस्तिष्ठन्ति, ततस्ता व्युपशमयितुं 'तत्रैव'
१°याणि व, 3° तामा० ॥ २ °तेत्याज्ञा त० डे० ॥ ३ °रमा भा० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org