________________
भाष्यगाथाः ३७१८-२५] तृतीय उद्देशः ।
१०३३ उवस्सए य संथारे, उवही संघपाहुणे । सेहवणुद्देसे, अणुन्ना भंडणे गणे ॥ ३७२२ ॥ अणप्पज्झ अगणि आऊ, वीआर पुत्त संगमे ।
संलेहण वोसिरणे, वोसट्टे निहिए तिहं ॥ ३७२३ ॥ उपाश्रयस्य संस्तारकस्योपधेर्वा प्रदानार्थं संयतीप्रतिश्रयं गच्छेत् । काश्चिद्वा संयत्यः परीष-. हपराजिता अवधावनाभिमुख्यो वर्तन्ते तासां स्थिरीकरणार्थ सङ्घप्राघुणो गच्छेत् । इह कुलस्थविरो गणस्थविरः सङ्घस्थविरो वा सङ्घस्य गौरवार्हतया प्राघुण इव प्राघुण उच्यते । शैक्षस्य वोपस्थापनां स्थापनाकुलानां वा स्थापनां कर्तुं तत्र व्रजेत् । वसतावखाध्यायिके श्रुतस्योद्देशमनुज्ञां वा कर्तुं तत्र गच्छेत् । 'भण्डनं' कलहः तद् वा तासां परस्परमुत्पन्नं तदुपशमनार्थ गन्तव्यम् । “गणे" त्ति प्रवर्तिन्यां कालगतायां गणचिन्तार्थ गच्छेत् ॥ ॥ ३७२२ ॥ 10 __"अणप्पज्झ" ति देशीपदमनात्मवशवाचकम्, ततश्चानात्मवशायाः-यक्षाविष्टादिक पाया आर्यिकाया मन्त्र-तत्रादिप्रयोगेणात्मवशतां कर्तुं गच्छेत् । अग्मिना वा संयतीवसतिर्दग्धा, अप्कायपूरेण वा प्लाविता, विचारभूमौ वा गच्छन्तीनां तासां सोपसर्गम् , "पुत्ते" ति पुत्रः उपलक्षणत्वात् पिता भ्राता वा तासां कालगतो भवेत् , "संगमे" ति पुत्र-भ्रात्रादिरेव तासां सज्ञातकश्चिरादागतो भवेत् तस्य यः सङ्गमः-मीलकस्तदर्थम् , तथा 'संलेखनं' भक्तप्रत्याख्या-15 नाय परिकर्मणां काचिदार्यिका करोति, 'व्युत्सर्जनं वा' भक्तप्रत्याख्यानं कर्तुकामा काचिद् विद्यते, 'व्युत्सृष्टं वा' कयाचिद् भक्तं प्रत्याख्यातम् अनशनं प्रतिपन्नमित्यर्थः, एतेषु कारणेषु गच्छेत् । अथ काचिद् 'निष्ठिता' कालगता ततः शेषसंयतीनां शोकापनयनार्थ 'व्यहं त्रीन् दिवसान् यावदुपर्युपरि सूरिणा गन्तव्यमिति श्लोकद्वयसङ्केपार्थः ॥ ३७२३ ॥ अथैतदेव प्रतिपदं बिभावयिषुराह
20 अजाणं पडिकुटुं, वसही-संथारगाण गहणं तु । __ओभासिउ दाउं वा, वच्चेजा गणहरो तेणं ॥ ३७२४ ॥ आर्याणां खयं वसतेः संस्तारकाणां च ग्रहणं भगवता 'प्रतिक्रुष्टं' प्रतिषिद्धम् , अतो वसतिमवभाषितुं गणधरो गच्छति । संस्तारकांश्च तासां प्रायोग्यानुत्पाद्य तान् प्रदातुं गणधरस्तत्र व्रजेत् ॥ ३७२४ ॥ अथोपधिद्वारमाह
पडियं पम्हु वा, पलावियं अवहियं व उग्गमियं ।
उवहिं भाएतुं जे, दाएउ वा वि वच्चेजा ॥ ३७२५॥ भिक्षादौ पर्यटन्तीनां तासामुपधिः पतितः, स्वाध्यायभूमौ वा गतानां "पम्हुटुं" ति विस्मृतः, उदकेन वा प्लावितः, स्तेनैर्वाऽपहृतः, स च भूयोऽपि साधुभिर्लब्धः; अपूर्वो वा उपधितः 'उद्गमितः' उत्पादितः, अतस्तमुपधिं भाजयितुं वा दातुं वा गणधरो व्रजेत् । तत्र पतित-विस्मृ-30 तादेरुपकरणस्य यद् यस्याः सत्कं तस्य तस्या एवं यद् विभज्य समर्पणं तद् भाजनमुच्यते,
१ भा० कां० विनाऽन्यत्र- घावना भवति मुख्या वर्त मो० ले० । धारणा भवति मुख्या वर्त्त त० डे० ॥२°स्परं समु° मो० ले० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org