________________
16
१०३२
निकारणे विधीय वि, दोसा ते चैव जे भणिय पुत्रि । वीसत्थाई मुत्तुं, गेन्नाई उवरिमा उ || ३७१८ ।
निष्कारणे 'विधिनाऽपि ' नैषेधिकीत्रय करणरूपेण प्रवेशे त एव दोषाः ये 'पूर्व' प्रथमभङ्गे सप्रपञ्चमुक्ताः । नवरं विश्वस्ता विषया ये दोषा उक्ताः, आदिशब्दस्तेषामेवानेकभेदसूचकः, 6 तान् मुक्तवा ये ग्लान्यादिविषया उपरितना दोषास्ते द्वितीयभङ्गे सम्भवन्ति, विश्वस्तादोषास्तु नैषेधिकीयकरणेन न सम्भवन्तीति भावः ॥ ३७१८ ॥
निक्कारणे विधीय वि, तिट्ठाणे गुरुगों जेण पडिकुटुं ।
कारणगमणे सुद्धो, णवरिं अविधीय मासतियं ।। ३७१९ ॥
निष्कारणे विधिनाऽपि प्रविशन् यस्त्रिषु स्थानेषु नैषेधिकीं प्रयुङ्क्ते तस्यापि मासगुरुकम् । 10 कुतः ? इत्याह-येन प्रतिकुष्टं भगवता निष्कारणमार्यिकावसतौ गमनम् । अथ तृतीयभङ्गमाह — " कारण " इत्यादि । कारणे यः संयतीवसतौ गच्छति स शुद्धः । नवरम् 'अविधिना' असामाचार्या प्रवेशनिष्पन्नं त्रिषु स्थानेषु यदि नैषेधिकीत्रयं न करोति ततो मासैलघुत्रयम्, द्वयोः स्थानयोर्न करोति मार्सेलघुद्वयम्, एकस्मिन् स्थाने न करोति एकं मासैलघुकम् ॥ ३७१९ ॥ कारणतो अविधीए, दोसा ते चेव जे भणिय पुवि ।
कारणें विधीय सुद्धो, इच्छं तं कारणं किन्नु ॥ ३७२० ॥
कारणतोऽविधिना प्रविशतो दोषास्त एव भवन्ति ये विश्वस्तादिविषयाः पूर्वं भणिता इति । कारणे तु 'विधिना' त्रिषु स्थानेषु नैषेधिकीत्रयं कृत्वा प्रविशन् शुद्धः । शिष्यः पृच्छति - इच्छाम्यहं ज्ञातुम् किं तत् कारणम् ? येन तत्र गम्यते ॥ ३७२० ॥ सूरिराहगम्म कारणजाए, पाहुणए गणहरे महिडीए ।
पच्छादणा य सेहे, असहुस्स चउक्कभयणा उ ।। ३७२१ ।।
गम्यते यतीनां प्रतिश्रये 'कारणजाते' उपाश्रय संस्तारकप्रदानादिके । प्राघुणको वा साधुः संयतीनामनाबाधपृच्छानिमित्तं गच्छेत् । गणधरो वा मूर्च्छा-विसूचिकादौ संयतीनामागाढे कारणे समुत्पन्ने दिवा रात्रौ वा गच्छेत् । 'महर्द्धिको वा' राजा ऽमात्यादिप्रत्रजितः संयतीनां तेजो-गौरवादिजननार्थं यायात् । "सेहि" त्ति शैक्षस्य राजपुत्रप्रत्रजितादेरमात्यादिभिरुन्निका25 मयितुमारब्धस्य प्रच्छादना संयतीप्रतिश्रये नीत्वा कर्तव्या । काचिद्वा संयती ग्लाना तस्याश्चिकित्सा कर्त्तव्या, तत्रासहिष्णोः साधोः साध्व्या [श्च] चतुष्कभजना भवति, चतुर्भङ्गीत्यर्थः । सा चेयम् - साध्वी सहिष्णुः साधुरपि सहिष्णुः १ साध्वी संहिष्णुः साधुरसहिष्णुः २ साध्वी असहिष्णुः साधुः सहिष्णुः ३ साध्वी साधुश्च द्वावप्यसहिष्णू ४ । एष द्वारगाथासङ्क्षेपार्थः ॥ ३७२१ ॥
30 अथ विस्तरार्थमभिधित्सुः प्रथमद्वारमङ्गीकृत्याह
20
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्ग्रन्थ्युपा०प्र० सूत्रम् १
१ “कारण० पच्छद्धं । कारणगमणे सुद्धो, अविधीए मासलहुगो तिसु ठाणेसु ।” इति चूर्णो ॥ २ अविधिप्रवेश भा० ॥ ३ 'सगुरुत्र' भा० ॥ ४°सगुरुद्ध भा० ॥ ५°सगुरुकम् भा० ॥ ६ °हिष्णुपदोपलक्षिता चतुष्क भा० ॥ ७ साधोश्चतु कां• विना ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org