________________
भाष्यगाथाः ३७१०-१७) तृतीय उद्देशः ।
१०३१ - एतत् सर्वं स्थानं निषदनं चाश्रित्योक्तम् । अथ त्वग्वर्तनादीनि पदान्यङ्गी » कृत्याह
पयला निद्द तुअट्टे, अच्छिद्दिट्ठम्मि चमढणे मूलं ।।
पासवणे सञ्चित्ते, संका वुच्छम्मि उड्डाहो ॥ ३७१४ ॥ प्रचलायनं नाम-निषण्णस्य सुप्तजागरावस्था, निद्रायणं तु-निषण्णस्यैव खपनम् , त्वरवर्तनं-- संस्तारकं प्रस्तीर्य शयनम् , अक्षिचमढनं-चक्षुषोर्मीलनम् । एतानि कुर्वाणो यद्यपि सागारिका-5 दिना न दृष्टस्तथापि चतुर्गुरु, दृष्टे तु शङ्कायां चतुर्गुरु, निःशकिते मूलम्, प्रश्रवणं संयतीनां कायिकाभूमौ करोति चतुर्लघु । “सच्चित्ते" त्ति संयत्याः कायिकां व्युत्सृजत्या योनौ संयतनिसृष्टं शुक्रबीजमवगाहेत ततो मूलम् । “संका वुच्छम्मि" त्ति तं संयतं तत्र कायिकां व्युत्सृजन्तं दृष्ट्वा सागारिकादिः शङ्कां कुर्यात्-किं मन्ये एष श्रमणको रजन्यामत्रैवोषितः ?, ततो महानुड्डाहः प्रवचनस्य भवतीति । एषा पुरातना गाथा ॥ ३७१४ ॥
-10 अथास्या एव व्याख्यानमाह
पयला निद्द तुअट्टे, अच्छीणं चमढणम्मि चउगुरुगा।
दिढे वि य संकाए, गुरुगा सेसेसु वि पदेसु ॥ ३७१५ ॥ प्रचलां निद्रां त्वग्वर्त्तनमक्षिचमढनं च कुर्वाणं यदि घरी न पश्यति ततश्चतुर्गुरुकाः, दृष्टेऽपि प्रचलादौ शङ्कायां चतुर्गुरुकाः, निःशङ्किते मूलम् । शेषेष्वपि' अशनादिसमुद्देशन-खाध्या-15 यकरणादिषु सूत्रोक्तपदेषु परेणादृष्टेषु चत्वारो गुरवः, दृष्टेष्वपि शङ्कायां चतुर्गुरु, निःशङ्किते मूलम् ॥ ३७१५ ॥ का पुनः शङ्का भवेत् ? इति चेद् उच्यते
-सज्झाएण णु खिण्णो, आउं अण्णेण जेण पयलाति ।
संकाएँ हुंति गुरुगा, मूलं पुण होति णिस्संके ॥ ३७१६ ॥ 'नुः' इति वितर्के, किमेष संयतः खाध्यायजागरेण खिन्नः ? आहोश्चिदन्येन सागारिकप्र-20 सङ्गेन रात्रौ खिन्नः ? येनैवं प्रचलायते, एवं शङ्कायां चतुर्गुरुकाः, निःशकिते तु मूलं भवति
अन्नत्थ मोय गुरुओ, संजतिवोसिरणभूमिए गुरुगा।
जोणोगाहण बीए, केयी धाराएँ मूलं तु ॥ ३७१७ ॥ __ संयतीकायिकाभूमिं विमुच्यान्यत्र मोकस्य व्युत्सर्जने मासगुरु । अथ. संयतीव्युत्सर्जनभूमौ 25 व्युत्सृजति ततश्चतुर्गुरु । तत्र च कदाचिद् दृष्टिक्लीबस्यान्यस्य वा बीजनिसर्गो भवेत् , तच्च बीजं संयतीधाराहतं सद् ऊर्द्धमुखमुद्धावितं योनाववगाहेत तत्र संयतस्य मूलम् , वाहाडितायां च तस्यामुड्डाहादयो दोषाः । केचिदांचायर्या ब्रुक्ते-धारया स्पृष्टमात्र एव बीजे मूलं भवति । यत एते दोषा अतो निष्कारणे संयतीवसतिमविधिना न प्रविशेत् ॥.३७१७ ॥ __गतः प्रथमो भङ्गः । द्वितीयभङ्गमाह-- . ११ एतन्मध्यगतः पाठः ताटी• त० डे. मो० ले. नास्ति, कां० भा० एव वर्तते ॥ २ अशिवादि भा० कां० विना ॥ ३ आओ अ° ताभा० । आतो अ° बृहद्भाष्ये ॥ ४ "जे वाहडा उडाहादयो दोसा" इति चूर्णो विशेषचूर्णौ च ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org