SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पारणगपट्टिया आणियं च अविगडियऽदंसिय ण भुंजे । अचियत्त अंतराए, परिताव असम्भवयणे य ।। ३७०० ॥ क्षपिका चतुर्थादितपःकर्मकारिणी पारणकार्थं प्रस्थिताऽपि 'ज्येष्ठार्य आगतः' इति मत्वा निवर्त्तते । प्रवर्त्तिनी वा तस्य समीपे निविष्टा वर्त्तते, तया च क्षपिकया पारणकमानीतम्, परम् ‘अविकटितम्' अनालोचितम् 'अदर्शितं वा' अनालोकितं सा न भुङ्क्त इति कृत्वा प्रवर्त्तिनीं प्रतिपालयन्ती तिष्ठति । ततश्च तस्या अप्रीतिकमन्तरायोऽनागाढमागाढं वा परितापो भवेत् । असभ्यवचनं वा सा ब्रूयात् - अहो ! अयमस्मत्कार्याणां कीलक इव साम्प्रतमुपस्थित 10 इति ॥ ३७०० || विचारद्वारमाह- १०२८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निर्मन्थ्युपा ०प्र० सूत्रम् १ मूर्च्छा सञ्जायेत, निरोधेन वा मरणमाप्नुयात्, असमाधिर्वा तस्या भवेत्, तत्रानागाढपरितापनादिनिष्पन्नं प्रायश्चित्तम् || ३६.९९ ।। अथ क्षपिकाद्वारमाह 5 नोल्लेऊण ण सक्का, अंतो वा होज णत्थि वीयारो । संते वाण पवतति, णिच्छुभण विणास गरिहा य ।। ३७०१ ।। स साधुर्द्वारमूले उपविष्टत्वाद् 'नोदयितुं' लङ्घयितुं न शक्यते, तासां च संयतीनामन्तः विचारभूमिर्नास्ति, अस्ति वा परं तस्यां संज्ञा न प्रवर्तते, शय्यातरेण वा सा नानुज्ञाता, तस्यां 15 व्युत्सर्जने निष्काशनमसौ कुर्यात्, निष्काशिताश्च श्वापदादिभिर्विनाशं लोकाच्च गर्हामासादयन्ति, तन्निष्पन्नं तस्य संयतस्य प्रायश्चित्तम् || ३७०१ ॥ अथ भिक्षाद्वारमाह - 25 य, कुलेसु दोसा चरंतीणं ॥ ३७०२ ।। संयत्यो भिक्षायां प्रस्थिताः, स च साधुः समायातः, ततस्तस्य दाक्षिण्येन तावत् स्थिता 20 यावद् भिक्षायाः सत्कालः - देशकालः स्फिटितः । ततोऽवेलायां भिक्षामटन्त्य एषणाशुद्धेः आदिशब्दाद् उद्गमोत्पादनाशुद्धेश्व प्रेरणं कुर्युः । अथ न प्रेरयेयुः ततस्तासामात्मनो हानिः परिताप-महादुःखादिना भवेत् । अभावितकुलेषु वाऽकाले चरन्तीनां शङ्कादयो दोषा भवेयुः । शङ्कां मैथुनार्थविषया, आदिशब्दाद् भोजिका - घाटिकादिदोषपरिग्रहः || ३७०२ ॥ सहकाल फेडणे सणादितपेलणे हाणी | संकाय भावि अथ स्वाध्यायद्वारमाह सज्झाए वाघातो, विहारभूमिं व पत्थिय णियत्ता | अकरण णासाssरोवण, सुत्तत्थ विणा य जे दोसा || ३७०३ ॥ 'ज्येष्ठार्य आगतः' इति कृत्वा ताः पठनं परावर्त्तनं वा न कुर्वन्ति, एवं स्वाध्यायव्याघातो भवेत् । वसतौ वा अस्वाध्यायिके जाते 'विहारभूमिं ' स्वाध्यायभुवं प्रस्थिताः भूयस्तं समागतं दृष्ट्वा निवृत्ताः, ततः “अकरणे" ति सूत्रपौरुषीं न कुर्वन्ति मासलघु, अर्थपौरुषीं न कुर्वन्ति 30 मासगुरु । सूत्रा -ऽर्थनाशनिष्पन्ना चारोपणा, सा चेयम् सूत्रं नाशयति चतुर्लघु, अर्थं नाशयति चतुर्गुरु 1 सूत्रार्थाभ्यां च विना ये 'दोषाः' चरण- करणहान्यादयस्तन्निष्पन्नं सर्वमपि संयतस्य प्रायश्चित्तम् ॥ ३७०३ || पाली भेदद्वारमाह- १ "भूमौ' स्वाध्यायभुवि 'प्रस्थि' भा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy