________________
१०२६
सनियुक्ति-लधुभाष्य-वृत्तिकै बृहत्कल्पसूत्रे [ निम्रन्थ्युपा०प्र० सूत्रम् १ वक्तव्यम् ॥ ३६८९ ॥ यथाप्रतिज्ञातमेव निर्वाहयति
निकारणमविहीए, निकारणओ तहेव य विहीए । कारणओ अविहीए, कारणतो चेव य विहीए ।। ३६९० ॥ [नि.गा. १६६६-१७८४] आदिमयणाण तिण्हं, अण्णतरीए उ संजतीसेजं ।
जे मिक्खू पविसेजा, सो पावति आणमादीणि ॥ ३६९१ ॥ ___ साध्वीप्रतिश्रये प्रविशतां चत्वारो भनाः, तद्यथा-निष्कारणेऽविधिना साध्वीप्रतिश्रये १ निष्कारणं विधिना २ कारणतोऽविधिना ३ कारणतो विधिना प्रविशति ४ ॥ ३६९० ॥
अत्र 'आदिभजनानाम् आद्यानां त्रयाणां मनानाम् अन्यतरया भजनया-भङ्गकेन संयतीनां शय्यां-वसति यो भिक्षुः प्रविशति स आज्ञादीनि दूषणानि प्रामोति ॥ ३६९१ ॥ 10 तत्र प्रथमभङ्गव्याख्यानार्थमाह
निकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं ।
लहुगा य दारमूले, अतिगयमेत्ते गुरू पुच्छा ॥ ३६९२ ॥ निष्कारणे संयतीवसतिं गच्छतश्चतुर्गुरुकाः । अविधिना च प्रविशतस्त्रिष्वपि स्थानेषु मासिकं गुरुकम् । त्रीणि स्थानानि नाम अग्रद्वार-मध्या-ऽऽसन्नलक्षणानि, एतेषु नैषेधिकीमकुर्व16 तस्त्रीणि मासगुरुकाणि भवन्ति । यदि 'द्वारमूले मूलद्वारसमीपे बहिस्तिष्ठति ततश्चतुर्लघवः ।
अथैकमपि पदमुपाश्रयमध्येऽतिगतः-प्रविष्टस्तदा अतिंगतमात्रे चतुर्गुरुः । “पुच्छि" ति नोदकः पृच्छां करोति ॥ ३६९२ ॥ कथम् ! इत्याह
पाणाइवायमादी, असेवतो केण होति गुरुगा उ ।
कीस व बाहिं लहुगा, अंतो गुरु चोतग! सुणेहिं ।। ३६९३ ॥ 20 प्राणातिपातादिकमपराधमसेवमानस्य केन कारणेन चतुर्गुरुका भवन्ति ? कस्माद्वा 'बहिः'
द्वारमूले चतुर्लघुकाः ? कस्माच्चान्तःप्रविष्टमात्रस्य चतुर्गुरुकम् ? । आचार्यः प्राह-हे नोदक! 'शृणु' निशमयात्र कारणं येनैवं प्रायश्चित्तं दीयते ॥ ३६९३ ॥ किं तत् ! इत्याह
वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए ।
पालीय होइ भेदो, अप्पाण परे तदुभए य ॥ ३६९४ ॥ 25 काचिदार्यिका तत्र 'विश्वस्ता' अपावृतशरीरा भवेत् सा संक्षोभमुपयायात् । ग्लाना वा क्षपिका वा संयतसंक्षोभेण न भुञ्जीत । विचारभूमौ भिक्षायां खाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत् । पाली नाम-संयममहातडागस्यानतिकमलक्षणः सेतुः तस्या आत्म-परोभयसमुत्थो भेदो भवति; यद्वा "पालि" त्ति वसतिपालिका भण्यते, तया सार्द्धमालापादि कुर्वत
आत्मसमुत्थः परसमुस्थ उभयसमुत्यो वा मेदो भवतीति द्वारगाथासमासार्थः ॥ ३६९४ ॥ 30. साम्प्रतमेनामेव विवृणोति
काई सुहवीसत्था, दरजिमिय अवाउडा य पयलाति ।
अतिगतमेत्ते य तहिं, संकिय पपलाइया थद्धा ॥ ३६९५ ॥ १रणमविधिना प्रविशति १ निष्का भा० को० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org