________________
१०२४ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ निम्रन्थ्युपा०प्र० सूत्रम् १ प्रकारान्तरेण सम्बन्धमाह
वीएहिं उ संसत्तो, वितियस्सातिम्मि इह उ इत्थीहिं ।
वितिए उवस्सगा वा, पगता इहई पि सो चेव ॥ ३६८०॥ द्वितीयोद्देशकस्यादिसूत्रे बीजैः संसक्त उपाश्रयो भणितः, 'इह तु' तृतीयोदेशकस्यादिसूत्रे 6 स्त्रीभिः संसक्त उच्यते । यद्वा द्वितीये उद्देशके बहुषु सूत्रेषूपाश्रयाः प्रकृता येषु साधूनां वस्तुं न कल्पते, अत इहाप्यादिसूत्रे स एवोपाश्रयः प्रोच्यते ॥ ३६८० ॥
तत्थ अकारण गमणं, पडुच्च सुत्तं इमं समुदियं तु ।
___ कजेण वा गते तू , तुवट्टमादीणि वारेति ॥ ३६८१ ॥ 'तत्र' निम्रन्थीनामुपाश्रयेऽकारणं-वक्ष्यमाणकारणकलापं विना यद् गमनं तत् प्रतीत्य 10 इदं सूत्रं 'समुदितं' समायातम् , तदनेन प्रतिषिध्यते इति भावः । अथ कार्येण तत्र गताः ततः 'गते तु' गमने पुनः सञ्जाते त्वग्वर्त्तनादीनि कर्तुं वारयति ॥ ३६८१ ॥
अनेन सम्बन्धेनायातस्यास्य व्याख्या–नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषत्तुं वा त्वग्वर्त्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं का खादिमं वा
खादिमं वा चतुर्विधमप्याहारमाहर्तुम् , उच्चारं वा प्रश्रवणं वा खेलं वा सिंघाणं वा परिष्ठापयि15 तुम् , स्वाध्यायं वा कर्तुम् , ध्यानं वा ध्यातुम् , कायोत्सर्ग वा स्थानं स्थातुमिति सूत्रस पार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह
आपुच्छमणापुच्छा, व अकजे चउगुरुं तु वच्चंते ।
आपुच्छिय पडिसिद्धे, सुद्धा लग्गा उवेहंता ॥ ३६८२ ॥ स्थविराणामापृच्छयाऽनापृच्छया वा यदि अकार्ये निम्रन्थीनामुपाश्रयं ब्रजति ततश्चतुर्गुरु20 कम् । स्थविरा आपृष्टाः सन्तो यदि प्रतिषेधं कुर्वन्ति–'मा व्रज, न वर्त्तते निष्कारणं निम्रन्थीनामुपाश्रयं गन्तुम्' एवं प्रतिषिद्धे स्थविराः 'शुद्धाः' न प्रायश्चित्तभाजः । अथ स्थविरा उपेक्षन्ते ततस्तेऽपि लग्नाः, चतुर्गुरुकमापन्ना इत्यर्थः ॥ ३६८२ ॥ अथवा
चउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य ।
आयरिए अभिसेगे, भिक्खुम्मि य गीतऽगीतत्थे ॥३६८३॥ . 25 आचार्यों यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततश्चत्वारो गुरवः । अभिषेको व्रजति
चत्वारो लघवः । गीतार्थभिक्षुर्बजति गुरुको मासः । अगीतार्थभिक्षुर्बजति लघुको मासः ॥ ३६८३ ॥ यद्वा
गमणे दूरे संकिय, णिस्संकभिलाव कक्ख सतिकरणं ।
ओभासण पडिसुणणे, संपत्ताऽऽरोवणा भणिता ॥ ३६८४ ॥ 30 निष्कारणं संयतीनामुपाश्रये गच्छति १ तत्र गतो दूरे स्थितः संयतीः पश्यति एतास्ता
इति २ कतरा कतरा पुनरियम् ? इत्येवं शङ्कां करोति ३ अमुका अमुका वा इयमिति निःशकितं जानाति ४ संयतीभिः समम् 'अभिलापं' संलापं करोति ५ कक्षान्तरादीनि विलोकयति ६
१ जानीते ४ भा० ॥
.
आपुग्छन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org