SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 5 रयहरणपंचगस्सा, परिवाडीयाऍ होति गहणं तु । उपपरिवाडी गहणे, आवज्जति मासियं लहुअं ॥ ३६७६ ॥ 'रजोहरणपञ्चकस्य' अनन्तरोक्तस्य परिपाटिकया ग्रहणं भवति । उत्परिपाट्या तु ग्रहणे • आपद्यते मासिकं लघुकम् ॥ ३६७६ ॥ का पुनः परिपाटि : ? इत्याहतिविहोत्रिय असतीए, उदियमादीण गहण धरणं तु । उप्परवाडी गहणे, तत्थ वि सद्वाणपच्छेत्तं ॥ ३६७७ ॥ 10 15 १०२२ सनिर्युक्ति-लघुभाप्य-वृत्तिके बृहत्कल्पसूत्रे [ रजोह ० प्र० सूत्रम् २५ क्वचिद् धर्मचक्रभूमिकादौ देशे 'वच्चकं' दर्भाकारं तृणविशेषं 'मुञ्जं च ' शरस्तम्बं प्रथमं 'चिप्पित्वा' कुट्टयित्वा तदीयो यः क्षोदस्तं कर्त्तयन्ति । ततः 'तैः' वच्चकसूत्रैर्मुञ्जसूत्रैश्च 'गोणी' बोरको व्यूयते, प्रावरणाssस्तरणानि च 'देशीं' देशविशेषं समासाद्य कुर्वन्ति । अतस्तन्निष्पन्नं रजोहरणं वञ्चकचिप्पकं मुञ्जचिप्पकं वा भण्यते ॥ ३६७५ ॥ 25 यथाकृतादिभेदात् त्रिविधं यदौर्णिकं तत् प्रथमतो ग्रहीतव्यम् । यथाकृतादिलाभचर्चः प्राग्वद् द्रष्टव्यः । अथौर्णिकं न प्राप्यते तत औष्ट्रिकादीनामपि चतुर्णां यथाक्रमं ग्रहणं धारणं वा कर्त्तव्यम् । अथ 'उत्परिपाट्या' यथोक्तक्रमव्यत्यासेन ग्रहणं करोति ततस्तत्रापि स्वस्थानप्रायश्चित्तम्, मध्यमोपधिनिष्पन्नं लघुमासिकमिति भावः ॥ ३६७७ ॥ आह—किमर्थं प्रथममौर्णिकं गृह्यते ? उच्यते— उद्ध-सणा कुच्छंती, उल्ला इयरेसु मद्दवं णत्थि । तेोणियं पसत्थं असतीय उ उक्कमं कुजा ॥ ३६७८ ॥ " उट्ट - सण" त्ति औष्ट्रिक - शनजे रजोहरणे वर्षाकाले व्याधारितवृष्टिकायेनाद्रींभूते सती कुथ्यतः । ततश्च पनकसम्मूर्च्छनादयो दोषाः प्रमार्जनाकार्यं च न भवति । अथार्द्रेणापि प्रमा20 र्जयन्ति ततो दशिकान्तेषु गोलकाः प्रतिबध्यन्ते, मलिनीभूते च तत्राप्कायविराधना । तथा 'इतरयोः' वच्चक-मुञ्जचिप्पकाख्ययो रजोहरणयोर्मार्दवं नास्ति, स्वभावत एव कठिनत्वात् । तेन कारणेनौर्णिकरजोहरण मौष्ट्रिकादिभ्यः प्रशस्तम् । और्णिकस्य 'असति' अभावे उत्क्रमं कुर्यात्, औष्ट्रिकादीन्यपि यथालाभं गृह्णीयादिति भावः || ३६७८ ॥ ॥ रजोहरणप्रकृतं समाप्तम् ॥ ॥ इति कल्पाध्ययनटीकायां द्वितीय उद्देशकः परिसमाप्तः ॥ द्वैतीयीकोदेशकोऽयं मयाऽपि, स्पष्टीचक्रे सद्गुरूणां प्रसादात् । सूते नाम्भोबिन्दुनिस्यन्दमिन्दुग्रावा चन्द्रज्योत्स्नया चुम्बितः किम् ? ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy