________________
१०२० सनियुक्ति-लघुभाष्य-वृत्तिके वृहत्कल्पसूत्रे [उपधिप्रकृते सूत्रम् २४
पंचण्डं वस्थाणं, परिवाडीगाएँ होइ गहणं तु ।
उप्परिवाडी गहणे, पच्छित्ते मग्गणा होइ ॥ ३६७० ॥ 'पञ्चानां' जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्तव्यम् । परिपाटिर्नाम-पूर्व कार्पासिकमौर्णिकं च, तदभावे वल्कज-पट्टजादिकमित्यादिरनन्तरोक्तः क्रमः । तामुल्लङ्य उत्परिपाट्या 5 ग्रहणे प्रायश्चित्तस्य मार्गणा भवति । तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्चरात्रिन्दिवानि, मध्यमे मासलघु, उत्कृष्ट चतुर्लघवः ॥ ३६७० ॥ एतदेव भावयति
अलंभऽहाडस्स उ अप्पकम्म, अलंमें तस्सावि उजं सकम्मं ।
एतं अकाउं चउरो उ मासा, भवंति वत्थे परिवाडिहीणे ॥ ३६७१ ॥
इह छेदन-सीवन-सन्धानादेरेकमपि परिकर्म यत्र न भवति तद् यथाकृतम् । यस्य तु 10 दशिका वा केवलं छेत्तव्याः, सन्धानं वा द्वयोः खण्डयोर्विधेयम् , तुन्ननं वा कर्तव्यं तदल्पपरि•
कर्म । यत्तु बहुधा छिद्यमानं सन्धीयमानं वा प्रमाणप्राप्तं भवति, यद् वा बहुधा सीवितव्यं तद् वस्त्रं बहुपरिकर्मोच्यते । तत्र प्रथमं यथाकृतं मार्गयितव्यम् , तस्यालामेऽल्पपरिकर्म, तस्याप्यभावे यत् 'सकर्म' बहुपरिकर्मकम् । अथैवंविधं योगमकृत्वा प्रथममेवाल्पपरिकर्म बहुपरिकर्म
वा गृह्णाति ततश्चत्वारो मासा लघवः । तुशब्दो विशेषणे, तल्लब्धश्चायमर्थः-उत्कृष्टस्य वस्त्रस्य 15 यथाकृतादिविपर्यासग्रहणे चतुर्लघवः, मध्यमस्य विपर्यासे मासिकम् , जघन्यस्य व्यत्यासे पञ्चकम् । एवं 'परिपाटीहीने' यथोक्तग्रहणक्रमरहिते वस्त्रे गृह्यमाणे प्रायश्चित्तम् ॥ ३६७१ ॥ अथ द्वितीयपदमाह
अद्धाणमाईसु उ कारणेसुं, कुजा अलंभम्मि उ उक्कम पि ।
गेलन्नमादीसु विवजयं वा, असतीय कुजा खलु खुम्मियस्स ॥३६७२ ॥ 20 अध्वा-विप्रकृष्टो मार्गस्तं प्रपन्नानां ततो वा निर्गतानां दुर्लभं वस्त्रं भवेत् , एवमादिषु
कारणेषु वस्त्रस्यालाभे उत्क्रममपि कुर्यात् , यथाकृतादिक्रमव्यत्यासेनापि गृह्णीयादिति भावः । तथा ग्लानत्वा-ऽनात्मवशतादिषु.कारणेषु 'विपर्ययमपि' परिभोगविपर्यासमपि कुर्यात् , अन्तःपरिभोग्यं बहिः बहिःपरिभोग्यं चान्तः प्रावृणुयादिति भावः । क्षौमिकस्य वा कल्पस्याभावे खल्वेकमप्यौर्णिकं प्रावृणुयात् ॥ ३६७२ ॥
॥ उपधिप्रकृतं समाप्तम् ॥
25
१ अभावे तस्सा ताभा० ॥ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org