________________
भाष्यगाथाः ३६६१-६९] द्वितीय उद्देशः ।।
१०१९ और्णिकान् वा गृह्णाति ततो मासलघु । प्रावृण्वन्नपि यद्येकमौर्णिकं प्रावृणोति ततः ‘एवमेव' मासलघु । 'अन्तर्वा' शरीरानन्तरितं 'मध्ये वा' द्वयोः सौत्रिकयोर्मध्यभागे यद्यौर्णिकं प्रावृणोति तदाऽपि मासलघु ॥ ३६६५ ॥ इदमेव भावयति
अभितरं व बाहिं, बाहिं अभितरं करेमाणे ।
परिभोगविवच्चासे, आवजइ मासियं लहुअं॥ ३६६६ ॥ अभ्यन्तरपरिभोग्यं-सौत्रिकं कल्पं बहिः 'कुर्वन्' प्रावृण्वन् बहिःपरिभोग्यं वा-औणिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं करोति, तत्र चापद्यते मासिकं लघुकम् । यत एवमतः सौत्रिकं कल्पमन्तः प्रावृणुयात् , और्णिकं तु बहिः । एष विधिपरिभोग उच्यते ॥ ३६६६ ॥ अत्र विधीयमाने गुणानुपदर्शयतिछप्पइय-पणगरक्खा, भूसा उज्झायणा य परिहरिया।
10 सीतत्ताणं च कत, खोम्मिय अभितरे तेण ॥ ३६६७ ॥ और्णिके ह्यन्तः परिभुज्यमाने षट्पदिकाः संसज्येरन् , ताः सौत्रिकमन्तः प्रावृण्वता रक्षिता भवन्ति । और्णिकं चान्तः परिभुज्यमानं मलीमसं भवति, तत्र च पनकः संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कृता भवति । सौत्रिकेण च बहिः प्रावृतेन विभूषा भवेत् । तथा वस्त्रमहर्निशमपि परिभुज्यमानं मलक्षम-न मलीमसं भवति, कम्बली तु परिभुज्यमाना मलीमसा 15 जायते, मलीमसतया च दुर्गन्धा, अतो विधिपरिभोगे "उज्झायणा' दुर्गन्धता साऽपि परिहृता । सौत्रिककल्पगर्भया च कम्बलिकया प्राब्रियमाणया शीतत्राणं कृतं स्यात् । एतेन कारणकलापेन 'क्षौमिकं' कार्पासिकं वस्त्रमभ्यन्तरे प्रावरणीयम् ॥ ३६६७ ॥ अथ कार्पासिकं न प्राप्यते ततः किं कर्त्तव्यम् ? इत्याहकप्पासियस्स असती, वागय पट्टे य कोसियारे य ।
20 असती य उण्णियस्सा, वागत कोसेज पट्टे य ॥ ३६६८ ॥ कार्पासिकस्याभावे वल्कजम् , तस्याभावे पट्टवस्त्रम् , तदप्राप्ती कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकं न प्राप्यते तत औणिकस्य स्थाने प्रथमं वल्कजं ततः कौशेयं ततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीमयमपि ग्रहीतव्यम् ॥ ३६६८ ॥ अथ प्रावरणे गणनाविधिमाह
ण उणियं पाउरते तु एकं, दोण्णी जता खोम्मिय उणियं च । दो सुत्ति अंतो बहि उणि तीसु, दुगादि उण्णी वि बहिं परेणं ॥ ३६६९ ॥ और्णिकं कल्पमेकं न प्रावृणुते, अर्थादापन्नं सौत्रिकमेकमपि प्रावृणुयात् । यदा तु द्वौ कल्पौ प्रावृणोति तदा 'क्षौमिकं' सौत्रिकमन्तः द्वितीयं पुनरौर्णिकं बहिः प्रावृणुयात् । त्रिषु कल्पेषु प्रावरीतुमिष्टेषु द्वौ सौत्रिकावन्तः एकं त्वौर्णिकं बहिः प्रावृणुयात् । अथौर्णिकान् 30 यादीनपि प्रावरीतुमिच्छति ततो द्वित्रिप्रभृतयोऽप्यौर्णिका बहिः सौत्रिकात् परतः पावरणीयाः ॥ ३६६९ ॥ अथ वस्त्रग्रहणे विधिमाह - १°णुयात्, अ° भा० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org