SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १०१८ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ उपधिप्रकृते सूत्रम् २४ सनसूत्रमयं सानकम्, 'पोतकं' कार्पासिकम्, तिरीट:- वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षणस्तन्निष्पन्नं तिरीटपट्टकं नाम पञ्चमम् । एष सूत्रसङ्क्षेपार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह 5 जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचिंदी | एकेक पि य एत्तो, होति विभागेणऽणेगविहं ।। ३६६१ ॥ जङ्गमेभ्यो जातं जङ्गिकम्, तत् पुनर्विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ॥ ३६६१ ॥ तद्यथा - पट्ट सुन्ने मलए, अंग चीणसुके च विगलेंदी | उणोट्टि मिलोमे, कुतवे किट्टे त पंचेंदी || ३६६२ ॥ 10 "पट्ट" त्ति पट्टसूत्रजम्, “सुवन्ने" त्ति सुवर्णवर्ण सूत्रं केषाञ्चित् कृमीणां भवति तन्निष्पन्नं सुवर्णसूत्रम्, मलयो नाम - देशस्तत्सम्भवं मलयजम्, अंशुकः - लक्ष्णपट्टः तन्निष्पन्नमंशुकम्, चीनांशुको नाम - कोशिकारराख्यः कृमिः तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपद : तत्र यः श्लक्ष्णतरः पट्टस्तस्माद् जातं चीनांशुकम् एतानि विकलेन्द्रियनिष्पन्नानि । तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, कुंतपो जीणम्, किट्टं - तेषामेवोर्णा रोमादीनामवयवाः 15 तन्निष्पन्नं वस्त्रमपि किट्टम्, एतानि पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि || ३६६२ ॥ अथ भाकादीनि चत्वार्यप्येकगाथया व्याचष्टे " अतसी- सीमादी, उभंगियं साणियं च सणवके । पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो || ३६६३ ॥ अतसीमयं वा “वंसि” चि वंशकरीलस्य मध्याद् यद् निष्पद्यते तद् वा, एवमादिकं भाङ्गि20 कम् । यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कर्पासमयम् । तिरीटवृक्षवल्कादु जातं तिरीपट्टकम् || ३६६३ ॥ 30 पंच परूवेऊणं, पत्तेयं गेण्हमाण संतम्मि । कप्पासिगा य दोणि उ, उण्णिय एक्को य परिभोगो ॥ ३६६४ ॥ एवं पञ्च वस्त्राणि प्ररूप्य सम्प्रति ग्रहणविधिरभिधीयते - 'प्रत्येकम्' एकैकस्य साधोः 25 प्रायोग्याणि वस्त्राणि गृह्णता 'सति' विद्यमाने लाभे द्वौ कल्पौ कार्पासिकौ एकचौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः । परिभोगश्चामीषां वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा ॥ ३६६४ ॥ अथैनामेव विवृणोति एक्कोनि सोति दोणी, तिणि वि गेण्डिज उण्णिए लहुओ । पाउरमाणे चेवं, अंतो मज्झे व जति उण्णी ॥। ३६६५ ॥ एक और्णिकः कल्पो द्वौ वा सौत्रिकौ प्रत्येकं ग्रहीतव्यौ । अथ त्रीनपि कल्पान् सौत्रिकान् १ चीनो नाम भा० कां० ताटी० विना ॥ २ “पंचिंदियं मियलोमं सलोमं मूसगलोमं वा, कुतवं छागलं, किटं एरोसिं चेवावयवणिफणं" इति चूर्णौ । “उणिय-उहिया प्रतीता, मिथलोमे पव्त्रयाणं रोमा, कुतबो तस्सेन अवयवा, कित्रिमं सगलियारोमं, एयाणि पंचिदियणिफण्णाणि” इति विशेषचूर्णौ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy