________________
१०१७
भाष्यगाथाः ३६५७ - ६० ]
द्वितीय उद्देशः ।
अत्र सागारिकेणादृष्टं तत्पूज्योऽप्रातिहारिकं ददातीति कृत्वा कल्पते, परं द्वितीयपदे,
नोत्सर्गतः ॥
यत आह---
पूयाभत्ते चेतिऍ, उवकरणे णिहिते सिट्ठे य ।
तं पण कप घेत्तुं पक्खेवगमादिणो दोसा ॥। ३६५८ ।। पूज्यानामर्थाय यद् भक्तं 'चेतितं' कृतम्, यच्चोपकरणं निष्ठितं तत् तेभ्यः 'निसृष्टम् अप्रातिहारिकतया प्रदत्तं तदपि न कल्पते प्रतिग्रहीतुम्, प्रक्षेपकादयो दोषा भद्रक - प्रान्तकृता मा भूवन्निति ।। ३६५८ ॥
॥ पूज्य भक्त- उपकरणप्रकृतं समाप्तम् ॥
उपधिकृतम्
सूत्रम् -
कप्पड़ निग्गंथाण वा निग्गंथीण वा इमाई पंच वत्थाई धारितए वा परिहरितए वा, तंजहाजंगिए भंगिए साणए पोत्तए तिरीडपट्टे नामं पंचमे २४ ॥
अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
उवगरणं चिय पगयं, तस्स विभागो उ बितिय - चरिमम्मि । आहारो वा वृत्तो, इदाणि उवधिस्स अधिकारो ।। ३६५९ ॥
पूर्वसूत्रे तावदुपकरणमेव प्रकृतम्, अतः 'तस्य' उपकरणस्य 'विभागः' विशेष प्ररूपणं द्वितीयोदेशकस्य चरमे अन्त्ये सूत्रद्वये क्रियते । अथवा पूर्वसूत्रेषु सप्रपञ्चमाहार उक्तः, इदानीं त्वस्मिन् सूत्रे 'उपधि(धे) रधिकारः' यादृश उपधिर्ग्रहीतुं कल्पते तादृक् प्रतिपाद्यते इति भावः 20
॥ ३६५२ ॥
ताई विरूवरूवाएँ दे वत्थाणि ताणि वा घेत्तुं ।
- सेस जतीणं देखा, तत्थ इमे पंच कप्पंति ॥ ३६६० ॥
Jain Education International
10
अनेन सम्बन्धेनायातस्यास्य व्याख्या – कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि 'धारयितुं वा' परिग्रहे धर्तुं 'परिहर्तुं वा' परिभोक्तुम् । तद्यथा - जङ्गमाः - त्रसाः तदवयवनिष्पन्नं जाङ्गमिकम्, सूत्रे प्राकृतत्वाद् मकारलोपः, भङ्गा - अतसी तन्मयं भाङ्गिकम्,
For Private & Personal Use Only
15
अथवा 'तानि' परिधान - प्रावरण- कम्बलादीनि विरूपरूपाणि वस्त्राणि यदा सागारिको प्रातिहारिकतया ददाति तदा तानि गृहीत्वा पूज्यः कलाचार्यादिः 'शेषाणि' भुक्तोद्वरितानि यतीनां 26 दद्यात्, 'तत्र' तेषु दीयमानेष्वसूनि पञ्च वस्त्राणि कल्पन्ते ॥ ३६६० ॥
www.jainelibrary.org