SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०१४ सनियुक्ति-लधुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ पूज्यभक्त० सूत्रम् २० . पुष्पाणां पणितेन-विक्रयेण यद् 'आरामिकाणां' मालिकानां घृतादिकं पतितं तद् आरामखामिना सागारिकेण यावदद्यापि न 'विरिक्तं' विभक्तं तावदेषाऽपि सागारिकांशिका । अथ च क्षेत्रादिषु मालाकारान्तेषु द्वारेषु यदि सागारिकस्य सम्मुखं पश्यतस्तदीयायामंशिकायामविभक्तायां साधवो भक्तादिकं गृह्णन्ति तदा भद्रककृताः प्रक्षेपकादयः प्रान्तकृताः पुनरप्रीतिकादयः 5 पूर्वोक्ता दोषा मन्तव्याः ॥ ३६५० ॥ मालाकारद्वारं प्रकारान्तरेणाह अहवा विमालकारस्स अंसियं अवणयंति भुजेसु । सो य सगारो तेसिं, तं पि ण इच्छंति अविभत्तं ॥ ३६५१॥ अथवा मालाकारस्य पुष्पावचयनादिनिर्विष्टामंशिकां 'भोज्येषु' शालि-दाल्यादिषु यावत् ___ तस्य आभाव्यं तावन्मात्रामगारिणः प्रागेवापनयन्ति, स च मालाकारः 'तेषां' साधूनां सागा10रिकः, अतो यावदसौ मालाकारांशिका अविभक्ता तावत् तामपि ग्रहीतुं नेच्छन्ति ॥३६५१॥ द्वितीयपदमाह गेलण्णमाईसु उ कारणेसू, माऽदिप्पसंगो ण य सव्वें गीता। गिण्हंति पुंजा अविरेडियातो, तस्सऽण्णतो वा वि विरेडियाओ ॥ ३६५२ ॥ ग्लानत्वा-ऽवमौदर्यादिषु कारणेषु संस्तरणाभावे 'मा प्रथमत एव शय्यातरपिण्डग्रहणेऽति15 प्रसङ्गो भवतु' इति कृत्वा, न च ते सर्वेऽपि गीतार्था अतः प्रथमम् 'अविरिक्ताद्' अन्यैः समं साधारणात् पुजात् , ततः 'अन्यस्मादपि' विरिक्तात् 'तस्य' सागारिकस्य सत्कात् पुञ्जाद् गृहन्ति ॥ ३६५२॥ ॥ अंशिकाप्रकृतम् ॥ 20 पूज्य भक्त उपकरण प्रकृतम् सूत्रम् सागारियस्स पूयाभत्ते उद्देसिए चेइए पाहुडियाए, सागारियस्स उवगरणजाए निटिए निसट्टे पाडिहारिए, तं सागारिओ देजा सागारियस्स परिजणो देजा, तम्हा दावए नो से कप्पइ पडिगाहित्तए २० ॥ अथास्य सूत्रस्य कः सम्बन्धः? इत्याह दव्वे छिण्ण मछिण्णं, ण कप्पती कप्पए य इति वुत्तं । इदमण्णं पुण भावे, अन्चोच्छिण्णम्मि पडिसिद्धं ॥ ३६५३ ॥ १ अत्र च भा० ॥ २-३ देइ भा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy