________________
द्वितीय उद्दशः ।
१०१३
भाव्यगाथाः ३६४३ - ५० ] भागादिविवक्षा कृता सा अंशिका अविभक्तेत्युच्यते । यत्र तु भागाः कृताः परं मूलराशिः कृतभागोऽपि न सर्वो व्यवच्छिद्यते सा अव्यवच्छिन्ना ॥ ३६४५ ॥
अव्बोगडा उ तुज्झं, ममं तु वा जा ण ताव णिद्दिसति । तत्थैव अच्छमाणी, होति अणिजूहिया अंसी || ३६४६ ।।
सर्वेषामपि समा भागाः स्थापिताः परम् ' एष भागस्तव, एप पुनर्मम' इत्येवं यां न तावद् निर्दिशति साऽव्याकृताऽभिधीयते । या तु निर्दिष्टा परमद्यापि न ततोऽन्यत्र नीयते सा अंशिका तत्रैव तिष्ठन्ती अनिर्गूढा भवति । एवंविधा न कल्पते प्रतिग्रहीतुमिति || ३६४६ ॥ अथ क्षेत्रद्वारं व्याचष्टे –
सीताइ जनो पहुगादिगा वा, जे कप्पणिजा जतिणो भवति ।
10
साली - फलादीण व णिकयम्मि, पडेज तेल्लं लवणं गुलो वा ।। ३६४७ ॥ सागारिकस्यान्येषां च साधारणे क्षेत्रे 'सीतायाः ' हलपद्धतिदेवतायाः 'यज्ञः' पूजा भवेत् तत्र शाल्यादिद्रव्यं यद् उपस्कृतम्, पृथुकादयो वा ये तत्र क्षेत्रे यतीनां कल्पनीया भवन्ति, यद् वा तत्र शालीनां - कलमादीनां फलानां चिर्भटादीनाम् आदिशब्दादे योवारिप्रभृतीनां धान्यानां विक्रीयमाणानां निष्क्रये तैलं वा लवणं वा गुडो वा पतेत्, एषा सर्वाऽपि क्षेत्रविषया सागारिकांशिका || ३६४७ ॥ यन्त्रद्वारमाह
जंते रसो गुलो वा, तेलं चक्कम्मि तेसु वा जंतू । विक्रेते पडितं, पवत्तणंते य पगयं वा ॥ ३६४८ ॥
यन्त्रमपि सागारिकस्यान्यैः सह साधारणं स्यात् । तच्च द्विधा - इक्षुयन्त्रं तिलयन्त्रं च । तत्रेक्षुयत्रे कोल्हुकाख्ये रसो गुडो वा भवेत् । तिलयन्त्रं तु चक्रमुच्यते, तत्र तैलं तिला ऽतसीसर्षपादीनां भवेत् । ‘तेषु वा' रसादिषु विक्रीयमाणेषु 'यत् तु' तन्दुल- धृत-वस्त्रादिकमापति - 20 तम्, अथवा यन्त्रस्य प्रवर्त्तने - प्रथमप्रारम्भे 'अन्ते वा' परिसमाप्तौ यत् ते सम्भूय 'प्रकृतं ' प्रकरणं कुर्वन्ति, एषा यत्रविषया अंशिका ॥ ३६४८ ॥ अथ भोज्य-क्षीरद्वारे व्याख्यानयतिगण-गोमादि भोजा, भुत्तुव्वरियं व तत्थ जं किंचि ।
भागमादीण पओ, अविभत्तं जं व गोवेणं ॥ ३६४९ ॥
15
गणः–मल्लादिगणरूपः गोष्ठी - महत्तरादिपुरुषपञ्चकपरिगृहीता तयोः, आदिशब्दादन्यस्यापि 25 महाजनस्य साधारणानि यानि भोज्यानि - सङ्खडयः यद् वा किञ्चिद् मोदकचूरिप्रभृतिकं तत्र भुक्तोद्वरितं द्रव्यम् एषा भोज्यविषया सागारिकांशिका | तथा सागारिकसम्बन्धिनां भ्रातृभ्रातृव्यादीनां पयः' दुग्धं यावदद्यापि सागारिकेण सहाविभक्तम्, यद् वा दुग्धं वृत्तिच्छिन्नं सागारिकदुग्धमध्यादद्यापि गोपेनाविभक्तम्, एषा क्षीरविषया सागारिकांशिका ॥ ३६४९ ॥
मालाकारद्वारमाह
30
पुष्पाणिण आरामिगाण पडियं ण जाव उ विरिक्कं । पक्खेवगादि समुहं, अचियत्तादी य पुव्वुत्ता ॥ ३६५० ।।
१° निर्यूढा भा० मो० ले० ताटी० ॥ २°द् यावा' भा० ॥ ३ कोल्हका भा० कां० बिना ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org