SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Cr. १०१२ सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ अंशिकाप्रकृत सूत्रम् १९ अंशि का प्रकृतम् सूत्रम् सागारियस्स अंसियाओ अविभत्ताओ अव्वोच्छिनाओ अव्वोगडाओ अनिजूढाओ, तम्हा दावए नो से कप्पइ पडिग्गाहित्तए । सागारियस्स अंसियाओ विभत्ताओ वोच्छिन्नाओ वोगडाओ निजूढाओ, तम्हा दावए एवं से कप्पड़ पडिग्गाहित्तए १९॥ . अथास्य सम्बन्धमाह छिन्नममत्तो कप्पति, अच्छिण्णों ण कप्पती अह तु जोगो । पत्तेगं वा भणितो, इयाणि साहारणं भणिमो ॥ ३६४३॥ आहृतिका-निर्हतिकापिण्डवदंशिकापिण्डोऽपि सागारिकेण 'छिन्नममत्वः' 'ममायम्' इति भावाद् निवर्तितः कल्पते, अच्छिन्नममत्वस्तु न कल्पते । अथैषः 'योगः' सम्बन्धः । यद्वा 'प्रत्येकम्' एकस्यैव सागारिकस्य सत्कं पिण्डमाश्रित्य विधिर्भणितः । इदानीं तु सागारिकस्यान्येषां 15 च साधारणं पिण्डमधिकृत्य विधि भणामः ॥ ३६४३ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-सागारिकस्य या अंशिका तस्या अन्येषामंशिकाभ्योऽविभक्ताया अव्यवच्छिन्नाया अव्याकृताया अनिर्गुढाया मध्यात् कश्चिद् भक्त-पानं दद्यात् , नो "से" तस्य साधोः कल्पते प्रतिग्रहीतुम् । सागारिकस्यांशिका विभक्ता व्यवच्छिन्ना व्याकृता निगूढा च यस्माद् राशेर्भवति तस्माद् दद्यात् , एवं "से" तस्य कल्पते प्रतिग्रहीतुमिति सूत्र20 सङ्केपार्थः ॥ अथ नियुक्तिविस्तरः सागारियस्स अंसिय, अविभत्ता खेत-जंत-भोजेसु । खीरे मालाकारे, सगारदिहें परिहरंति ॥ ३६४४ ॥ सागारिकस्यांशिका अविभक्ता न कल्पते । सा च क्षेत्रे वा यन्त्रे वा भोज्येषु वा क्षीरे वा मालाकारे वा सम्भवति । अत्र च सागारिकदृष्टं सर्वत्रापि परिहरन्तीति नियुक्तिगाथासमा25 सार्थः ॥ ३६४४ ॥ अथैनामेव विवरीषुः सूत्रस्य विषमपदानि तावद् विवृणोति __ अंसो ति व भागो ति व, एगट्ठा पुंज एव अविभत्ता। कतभागो वि ण सव्वो, वोच्छिजति सा अवोच्छिण्णा ॥ ३६४५।। अंश इति वा भाग इति वा एकार्थे पदे । अंश एवांशिका, खार्थे कः प्रत्ययः । तत्र यावान् सागारिकादीनां साधारणश्चोल्लक उपस्कृतस्तावानद्याप्यखण्डः पुञ्ज एवं यदाऽऽस्ते न १ नियंढा मो० ले. ॥ २ स्वार्थिकः कप्रत्य° भा० ॥ ३ भा. विनाऽन्यत्र-°व अथस्ते त. डे. मो० ले । व......आस्ते कां० । °व अयस्ते ताटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy