________________
भाष्यगाथाः ३६३५-४२] द्वितीय उद्देशः ।
१०११ अस्य व्याख्या प्राग्वत् (गा० ३५५०) ॥ ३६३८ ॥ अत्र निमन्त्रणापदं विशेषतो भावयति
निबंधनिमंतेंते, भणंति भजि दलाहि जा एसा ।
तं पुण अविगीतेसुं, गीया इतरं पि गेण्हंति ॥ ३६३९ ॥ शय्यातरं महता निर्बन्धेन निमन्त्रयमाणं साधवो भणन्ति-~-या तवैषा भर्जिका-प्रहेण 5 आहृतिका निर्दृतिका वा तां प्रयच्छ । 'तत् पुनः' आहृतिकाया निर्हतिकाया वा ग्रहणमगीतार्थेषु कुर्वन्ति । ये तु गीतार्थास्ते 'इतरमपि' सागारिकपिण्डमपि गृहन्ति ॥ ३६३९ ॥
__णेच्छंतमगीतं एतिणेव सुत्तेण पत्तियाति ।
सच्छंदेण ण भणिमो, फुड-वियडमिणं भणति सुत्तं ॥ ३६४०॥ अथागीतार्थ आहृतिकां निहतिका वा नेच्छति ग्रहीतुं तत एतेनैव सूत्रेण प्रत्याययन्ति, 10 यथा-आर्याः ! वयं 'स्वच्छन्देन' खाभिप्रायेण न भणामः, किन्तु 'स्फुट-विकटम् अतीवव्यक्ताक्षरमिदमेव सूत्रं भणति, यथा-कल्पते सागारिकेणाप्रतिगृहीता आहृतिका परेण च प्रतिगृहीता निर्हृतिकेति ॥ ३६४०॥ अपि च---
जो तं जगप्पदीवहिं पणीयं सयभावपण्णवणं ।
ण कुणति सुतं पमाणं, ण सो पमाणं पवयणम्मि ॥ ३६४१॥ 15 'तत्' सकलत्रिलोकीप्रसिद्ध 'जगत्प्रदीपैः' भगवद्भिस्तीर्थकरैः प्रणीतं सर्वेषाम्-उत्सर्गाऽपवाद-निश्चय-व्यवहारादीनां भावानां प्रज्ञापना-अरूपणा यत्र तत् तथाविधं श्रुतं यः कश्चित् प्रमाणं न करोति नासौ 'प्रवचने' चतुर्वर्णसङ्घमध्ये प्रमाणं भवति ॥ ३६४१ ॥ अमुमेवार्थमन्योक्तिभङ्गया द्रढयति
जस्सेव पभावुम्मिल्लिता' तं चेव हयकतग्घाई।
कुमुदाइँ अप्पसंभावियाइँ चंद उवहसंति ॥ ३६४२॥ यस्यैव प्रभावेणोन्मीलितानि-प्रबुद्धानि तमेव चन्द्रं कुमुदान्युपहसन्तीति सण्टङ्कः । कथम्भूतानि ? इत्याह-हतकृतघ्नानि, हतशब्दो निन्दावाचकः, कृतघ्नतया पापानीत्यर्थः । आत्मानं सम्भावयन्ति–'वयमेव शोभनानि' इत्यभिमन्यन्ते तच्छीलानि च यानि तान्यात्मसम्भावीनि, । कुत्सितान्यात्मसम्भावीनि आस्मसम्भाविकानि । » एवंविधानि परमोपकारिण-25 मपि चन्द्रं 'वयमतीवावदातानि, भवास्तु सकलकत्वान्न तथा' इति वकीयश्वेतप्रभापटलेनोपहसन्तीवोपहसन्तीत्युच्यते । एवमार्याः ! भवन्तोऽपि यस्यैव प्रभावेणोन्मीलितविवेकलोचनाः सञ्जाताः तदेव श्रुतं साम्प्रतमप्रमाणयन्तो हतकृतना इव लक्ष्यन्ते । एवं प्रज्ञापिताः सन्तः प्रतिपद्यन्ते सूत्राशातनापातकभयादगीतार्था अप्याहृतिकादिग्रहणम् ॥ ३६४२ ॥
॥ आहृतिका-निर्रतिकाप्रकृतं समाप्तम् ॥
30
१०
एतन्मध्यगतः पाठः भा० एव वर्तते ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org